Stotrarnava /689
This page has not been fully proofread.
४.
॥ अथ श्री सुब्रह्मण्यभुजङ्गस्तोत्रम् ॥
भजेऽहं कुमारं भवानीकुमारं
गलोल्लासिहारं नमद्दग्विहारम् ।
रिपुस्तोमहारं नृसिंहावतारं
सदा निर्विकारं गुहं निर्विचारम् ॥ १ ॥
नमामीशपुत्रं जपाशोणगात्रं
सुरारातिशत्रुं रवीन्द्वग्निनेत्रम् ।
महाबर्हिपत्रं निवा[जा] स्याब्जमित्रं
प्रभास्वत्कलत्रं पुराणं पवित्रम् ॥ २ ॥
अनेकार्ककोटिप्रकाशं ज्वलन्तं
मनोहारिमाणिक्य भूषोज्ज्वलं तम् ।
श्रितानामभीष्टं दिशन्तं नितान्तं
भजे षण्मुखं तं शरच्चन्द्रकान्तम् ॥ ३ ॥
कृपावारि कल्लोलभास्वत्कटाक्षं
विराजन्मनोहारिशोणाम्बुजाक्षम् ।
प्रयोगप्रवाह प्रदानैकदक्षं
भजे कान्तिकान्तं परस्तोमर [रू]क्षम् ॥ ४ ॥
सुकस्तूरिका सिन्धु [बिन्दु ] भारवल्ललाटं
दयापूर्णचित्तं महादेवपुत्रम् ।
रवीन्दूल्लसद्रत्नराजत्किरीटं
भजे क्रीडिताकाशगङ्गामकूटम् ॥ ५ ॥
सुकुन्दप्रसूनावलीशोभितान्तं
शरत्पूर्ण चन्द्रास्यषट् कान्तिकान्तम् ।
शिरीष प्रसूनाभिरामं भवन्तं
भजे देवसेनावलीवल्लभं तम् ॥ ६
सुलावण्यतः सूर्यकोटीरनीशं [निकाशं ]
प्रभुं तारकारिं द्विषड्बाहुमीशम् ।
निजार्कप्रभादीप्यमानापदानं
भजे पार्वतीप्राणपुत्रं सुरेशम् ॥ ७ ॥
॥ अथ श्री सुब्रह्मण्यभुजङ्गस्तोत्रम् ॥
भजेऽहं कुमारं भवानीकुमारं
गलोल्लासिहारं नमद्दग्विहारम् ।
रिपुस्तोमहारं नृसिंहावतारं
सदा निर्विकारं गुहं निर्विचारम् ॥ १ ॥
नमामीशपुत्रं जपाशोणगात्रं
सुरारातिशत्रुं रवीन्द्वग्निनेत्रम् ।
महाबर्हिपत्रं निवा[जा] स्याब्जमित्रं
प्रभास्वत्कलत्रं पुराणं पवित्रम् ॥ २ ॥
अनेकार्ककोटिप्रकाशं ज्वलन्तं
मनोहारिमाणिक्य भूषोज्ज्वलं तम् ।
श्रितानामभीष्टं दिशन्तं नितान्तं
भजे षण्मुखं तं शरच्चन्द्रकान्तम् ॥ ३ ॥
कृपावारि कल्लोलभास्वत्कटाक्षं
विराजन्मनोहारिशोणाम्बुजाक्षम् ।
प्रयोगप्रवाह प्रदानैकदक्षं
भजे कान्तिकान्तं परस्तोमर [रू]क्षम् ॥ ४ ॥
सुकस्तूरिका सिन्धु [बिन्दु ] भारवल्ललाटं
दयापूर्णचित्तं महादेवपुत्रम् ।
रवीन्दूल्लसद्रत्नराजत्किरीटं
भजे क्रीडिताकाशगङ्गामकूटम् ॥ ५ ॥
सुकुन्दप्रसूनावलीशोभितान्तं
शरत्पूर्ण चन्द्रास्यषट् कान्तिकान्तम् ।
शिरीष प्रसूनाभिरामं भवन्तं
भजे देवसेनावलीवल्लभं तम् ॥ ६
सुलावण्यतः सूर्यकोटीरनीशं [निकाशं ]
प्रभुं तारकारिं द्विषड्बाहुमीशम् ।
निजार्कप्रभादीप्यमानापदानं
भजे पार्वतीप्राणपुत्रं सुरेशम् ॥ ७ ॥