Stotrarnava /688
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्री सुब्रह्मण्यस्तोत्रेषु
</ignore>
<verse>अण्डभित्तिपरिकम्पिभीषणक्रूरसैन्यपरिवारपूर्णयोः ।
शूरपद्मगुहयोर्महारणः शूरपद्मगुहयोरिवोल्बणः ॥ १६ ॥
</verse>
<verse>नानारूपधरश्च निस्तुलबलो नानाविधैरायुधै-
र्युद्धं दिक्षु विदिक्षु दर्शितमहाकायोऽण्डषण्डेष्वपि ।
यः शक्त्याशु विभिन्नतामुपगतः शूरोऽभवद्वाहनं
केतुश्चापि नमामि यस्य शिरसा तस्याङ्घ्रिपङ्केरुहे ॥ १७ ॥
</verse>
<verse>के कि कुक्कुटरूपाभ्यां यस्य वाहनकेतुताम् ।
अद्यापि वहते शूरस्तं ध्यायाम्यन्वहं हृदि ॥ १८ ॥
</verse>
<verse>देवैः सम्पूजितो यो बहुविधसुमनोवर्षिभिर्भूरिहर्षेषै-
र्वृत्रारिं स्वर्गलोके विपुलतरमहावैभवैरभ्यषिञ्चत् ।
तद्दत्तां तस्य कन्यां स्वयमपि कृपया देवयानामुदूह्य
श्रीमत्कैलासमाप द्रुतमथ लवलीं चोद्वहहंस्तं भजेऽहम् ॥ १९ ॥
</verse>
<verse>तत्रानन्तगुणाभिराममतुलं चाग्रे नमन्तं सुतं
यं दृष्ट्वा निखिलप्रपञ्चपितरावाघ्राय मूर्ल्ध्न्यादरात् ।
'
स्वात्मानन्द सुखातिशायि परमानन्दं समाजग्मतुः
मच्चित्तभ्रमरो वसत्वनुदिनं तत्पादपद्मान्तरे ॥ २० ॥
</verse>
<verse>दुष्पुत्रैर्जननी सती पतिमती कोपोद्धतैः स्वैरिणी
रण्डासीत्यतिनिन्दितापि न तथा भूयाद्यथा तत्त्वतः ।
'
दुष्पाषण्डिजनैर्दुराग्रह परैरस्स्कान्दं पुराणं महत्
मिथ्येत्युक्तमपि क्वचिच्च न तथा भूयात्तथा सत्यतः ॥ २१ ॥
</verse>
<verse>किं तु तद्दूषणात्तेषामेव कुत्सितजन्मनाम् ।
ऐहिकामुष्मिक महापुरुषार्थक्षयो भवेत् ॥ २२ ॥
</verse>
<verse>यत्संहिताषट्कमध्ये द्वितीया सूतसंहिता ।
भाति वेदशिरोभूषा स्कान्दं तत्केन वर्ण्यते ॥ २३ ॥
</verse>
<verse>यस्य शम्भौ परा भक्तिर्यस्मिन्नीशकृपामला ।
अपांसुला यस्य माता तस्य स्कान्दे भवेद्रतिः ॥ २४ ॥
</verse>
<verse>षडाननस्तुतिमिमां यो जपेदनुवासरम् ।
धर्ममर्थं च कामं च मोक्षं चापि स विन्दति ॥ २५ ॥
</verse>
<trailer>॥ इति श्रीषडाननस्तुतिः सम्पूर्णा ॥
</trailer>
</page>
<ignore>श्री सुब्रह्मण्यस्तोत्रेषु
<verse>अण्डभित्तिपरिकम्पिभीषणक्रूरसैन्यपरिवारपूर्णयोः ।
शूरपद्मगुहयोर्महारणः शूरपद्मगुहयोरिवोल्बणः ॥ १६ ॥
<verse>नानारूपधरश्च निस्तुलबलो नानाविधैरायुधै-
र्युद्धं दिक्षु विदिक्षु दर्शितमहाकायोऽण्डषण्डेष्वपि ।
यः शक्त्याशु विभिन्नतामुपगतः शूरोऽभवद्वाहनं
केतुश्चापि नमामि यस्य शिरसा तस्याङ्घ्रिपङ्केरुहे ॥ १७ ॥
<verse>के
अद्यापि वहते शूरस्तं ध्यायाम्यन्वहं हृदि ॥ १८ ॥
<verse>देवैः सम्पूजितो यो बहुविधसुमनोवर्षिभिर्भूरिहर्
र्वृत्रारिं स्वर्गलोके विपुलतरमहावैभवैरभ्यषिञ्चत् ।
तद्दत्तां तस्य कन्यां स्वयमपि कृपया देवयानामुदूह्य
श्रीमत्कैलासमाप द्रुतमथ लवलीं चोद्व
<verse>तत्रानन्तगुणाभिराममतुलं चाग्रे नमन्तं सुतं
यं दृष्ट्वा निखिलप्रपञ्चपितरावाघ्राय मूर्
'
स्वात्मानन्द
मच्चित्तभ्रमरो वसत्वनुदिनं तत्पादपद्मान्तरे ॥ २० ॥
<verse>दुष्पुत्रैर्जननी सती पतिमती कोपोद्धतैः स्वैरिणी
रण्डासीत्यतिनिन्दितापि न तथा भूयाद्यथा तत्त्वतः ।
'
दुष्पाषण्डिजनैर्दुराग्रह
मिथ्येत्युक्तमपि क्वचिच्च न तथा भूयात्तथा सत्यतः ॥ २१ ॥
<verse>किं तु तद्दूषणात्तेषामेव कुत्सितजन्मनाम् ।
ऐहिकामुष्मिक