Proofing

2026-04-03 16:54:07 by ambuda-bot

This page has not been fully proofread.

श्री सुब्रह्मण्यस्तोत्रेषु
 
अण्डभित्तिपरिकम्पिभीषणक्रूरसैन्यपरिवारपूर्णयोः ।
शूरपद्मगुहयोर्महारणः शूरपद्मगुहयोरिवोल्बणः ॥ १६ ॥
नानारूपधरच निस्तुलबलो नानाविधैरायुधै-
युद्धं दिक्षु विदिक्षु दर्शितमहाकायोऽण्डषण्डेष्वपि ।
यः शक्त्याशु विभिन्नतामुपगतः शूरोऽभवद्वाहनं
केतुश्चापि नमामि यस्य शिरसा तस्याङ्घ्रिपङ्केरुहे ॥ १७ ॥
के कि कुक्कुटरूपाभ्यां यस्य वाहनकेतुताम् ।
अद्यापि वहते शूरस्तं ध्यायाम्यन्वहं हृदि ॥ १८ ॥
देवैः सम्पूजितो यो बहुविधसुमनोवर्षिभिर्भूरिहर्षे-
वृत्रारिं स्वर्गलोके विपुलतरमहावैभवैरभ्यषिञ्चत् ।
तद्दत्तां तस्य कन्यां स्वयमपि कृपया देवयानामुदूह्य
श्रीमत्कैलासमाप द्रुतमथ लवलीं चोद्वहस्तं भजेऽहम् ॥ १९ ॥
तत्रानन्तगुणाभिराममतुलं चाग्रे नमन्तं सुतं
 
यं दृष्ट्वा निखिलप्रपञ्चपितरावाघ्राय मूर्ल्यादरात् ।
'स्वात्मानन्द सुखातिशायि परमानन्दं समाजग्मतुः
मच्चित्तभ्रमरो वसत्वनुदिनं तत्पादपद्मान्तरे ॥ २० ॥
दुष्पुत्रैर्जननी सती पतिमती कोपोद्धतैः स्वैरिणी
रण्डासीत्यतिनिन्दितापि न तथा भूयाद्यथा तत्त्वतः ।
'दुष्पाषण्डिजनैर्दुराग्रह परैरस्कान्दं पुराणं महत्
मिथ्येत्युक्तमपि क्वचिच्च न तथा भूयात्तथा सत्यतः ॥ २१ ॥
 
किं तु तदूषणात्तेषामेव कुत्सितजन्मनाम् ।
ऐहिकामुष्मिक महापुरुषार्थक्षयो भवेत् ॥ २२ ॥
 
यत्संहिताषट्कमध्ये द्वितीया सूतसंहिता ।
 
भाति वेदशिरोभूषा स्कान्दं तत्केन वर्ण्यते ॥ २३ ॥
 
यस्य शम्भौ परा भक्तिर्यस्मिन्नीशकृपामला ।
 
अपांसुला यस्य माता तस्य स्कान्दे भवेद्रतिः ॥ २४ ॥
 
षडाननस्तुतिमिमां यो जपेदनुवासरम् ।
 
धर्ममर्थं च कामं च मोक्षं चापि स विन्दति ॥ २५ ॥
॥ इति श्रीषडाननस्तुतिः सम्पूर्णा ॥