Stotrarnava /687
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीषडाननस्तुतिः
६४१</ignore>
<verse>येन साक्षाच्चतुर्वक्त्रः प्रणवार्थविनिर्णये ।
कारागृहं प्रापितोऽभूत् सुब्रह्मण्यः स पातु माम् ॥ ६ ॥
</verse>
<verse>कारुण्यद्रुतपञ्चकृत्यनिरतस्यानन्दमूर्तेर्मुखैः
श्रीशम्भोः सह पञ्चभिश्च गिरिजावक्त्रं मिलित्वामलम् ।
यस्य श्रीशिवशक्त्यभिन्नवपुषो वक्त्राब्जषट्काकृतिं
धत्ते सोऽसुरवंशभूधरपविः सेनापतिः पातु नः ॥ ७ ॥
</verse>
<verse>यः शक्त्या तारकोरः स्थलमतिकठिनं क्रौनञ्चगोत्रं च भित्त्वा
हत्वा तत्सैन्यशेषं निखिलमपि च तान् वीरबाहु प्रमुख्यान् ।
उद्धृत्वा युद्धरङ्गे सपदि च कुसुमैर्वर्षितो नाकिबृन्दैः
पायादायासतोऽस्मान् स झटिति करुणाराशिरीशानसूनुः ॥ ८ ॥
य</verse>
<verse>यद्दूतो वीरबाहुः सपदि जलनिधिं व्योममार्गेण तीर्त्वा
जित्वा लङ्कां समेत्य द्रुतमथ नगरीं वीरमाहेन्द्रनाम्नीम् ।
देवानाश्वास्य शूर प्रहितमपि बलं तत्सभां गोपुरादीन्
भित्त्वा यत्पादपद्मं पुनरपि च समेत्यानमत्तं भजेहम् ॥ ९ ॥
</verse>
<verse>यो वैकुण्ठादिदेवैःसुस्तुतपदकमलो वीरभूतादिसैन्यैः
।
६४१
<delete>संवीत नस्तो </delete><add>[संवीतो यो नभस्तो ]</add> झटिति जलनिधिं द्योपथेनैव तीर्त्वा ।
शूरद्वीपोत्तरस्यां दिशि मणिविलसद्धेमकूट। टाख्यपुर्यां
त्वष्टुर्निर्माणजायां कृतवसतिरभूत् पातु नः षण्मुखः सः ॥ १० ॥
</verse>
<verse>नानाभूतौघविध्वंसित निजपृतनो निर्जितश्च द्विरावृ-
त्त्यालब्धस्वावमाने निजपितरि ततः सङ्गरे भानुकोपः ।
भायी यत्पादभृत्यप्रवरतरमहावीरबाहुप्रणष्ट-
प्राणोऽभूत् सोऽस्तु <add>[नित्यं ]</add> विमलतरमहाश्रेयसे तारकारिः ॥ ११ ॥
</verse>
<verse>येन कृच्छ्रेण निहतः सिंहवक्त्रो महाबलः ।
द्विसहस्रभुजो भीमः ससैन्यस्तं गुहं भजे ॥ १२ ॥
</verse>
<verse>भूरिभीषणमहायुधारवक्षोभिताब्धिगणयुद्धम<add>[ण्डलः]</add> ।
सिंहवक्त्रशिवपुत्रयो रणः सिंहवक्त्रशिवपुत्रयोरिव ॥ १३ ॥
</verse>
<verse>शूरापत्यगणेषु यस्य गणपैर्नष्टेषु सिंहाननो
दैत्यः क्रूरबलोऽसुरेन्द्रसहजः सेनासहस्रैर्युतः ।
युद्धे च्छिन्नभुजोत्तमाङ्गनिकरो यद्वाबाहुवज्राहतो
मृत्युं प्राप स मृत्युजन्यभयतो मां पातु वल्लीश्वरः ॥ १४ ॥
</verse>
<verse>अष्टोत्तरसहस्राण्डप्राप्तशूरबलं महत् ।
क्षणेन यः संहृतवान् स गुहः पातु मां सदा ॥ १५ ॥
</verse>
<ignore>41
</ignore>
</page>
<ignore>श्रीषडाननस्तुतिः
<verse>येन साक्षाच्चतुर्वक्त्रः प्रणवार्थविनिर्णये ।
कारागृहं प्रापितोऽभूत् सुब्रह्मण्यः स पातु माम् ॥ ६ ॥
<verse>कारुण्यद्रुतपञ्चकृत्यनिरतस्यानन्दमूर्तेर्मुखैः
श्रीशम्भोः सह पञ्चभिश्च गिरिजावक्त्रं मिलित्वामलम् ।
यस्य श्रीशिवशक्त्यभिन्नवपुषो वक्त्राब्जषट्काकृतिं
धत्ते सोऽसुरवंशभूधरपविः सेनापतिः पातु नः ॥ ७ ॥
<verse>यः शक्त्या तारकोरः
हत्वा तत्सैन्यशेषं निखिलमपि च तान् वीरबाहु
उद्धृत्वा युद्धरङ्गे सपदि च कुसुमैर्वर्षितो नाकिबृन्दैः
पायादायासतोऽस्मान् स झटिति करुणाराशिरीशानसूनुः ॥ ८ ॥
य
<verse>यद्दूतो वीरबाहुः सपदि जलनिधिं व्योममार्गेण तीर्त्वा
जित्वा लङ्कां समेत्य द्रुतमथ नगरीं वीरमाहेन्द्रनाम्नीम् ।
देवानाश्वास्य शूर
भित्त्वा यत्पादपद्मं पुनरपि च समेत्यानमत्तं भजेहम् ॥ ९ ॥
<verse>यो वैकुण्ठादिदेवैः
।
६४१
<delete>संवीत नस्तो </delete><add>[संवीतो यो नभस्तो
शूरद्वीपोत्तरस्यां दिशि मणिविलसद्धेमकू
त्वष्टुर्निर्माणजायां कृतवसतिरभूत् पातु नः षण्मुखः सः ॥ १० ॥
<verse>नानाभूतौघविध्वंसित
त्त्यालब्धस्वावमाने निजपितरि ततः सङ्गरे भानुकोपः ।
भायी यत्पादभृत्यप्रवरतरमहावीरबाहुप्रणष्ट-
प्राणोऽभूत् सोऽस्तु <add>[नित्यं
<verse>येन कृच्छ्रेण निहतः सिंहवक्त्रो महाबलः ।
द्विसहस्रभुजो भीमः ससैन्यस्तं गुहं भजे ॥ १२ ॥
<verse>भूरिभीषणमहायुधारवक्षोभिताब्धिगणयुद्धम<add>[ण्डलः]</add> ।
सिंहवक्त्रशिवपुत्रयो रणः सिंहवक्त्रशिवपुत्रयोरिव ॥ १३ ॥
<verse>शूरापत्यगणेषु यस्य गणपैर्नष्टेषु सिंहाननो
दैत्यः क्रूरबलोऽसुरेन्द्रसहजः सेनासहस्रैर्युतः ।
युद्धे च्छिन्नभुजोत्तमाङ्गनिकरो यद्