Proofing

2026-04-03 16:54:06 by ambuda-bot

This page has not been fully proofread.

श्रीषडाननस्तुतिः
 
येन साक्षाच्चतुर्वक्त्रः प्रणवार्थविनिर्णये ।
 
कारागृहं प्रापितोऽभूत् सुब्रह्मण्यः स पातु माम् ॥ ६ ॥
कारुण्यद्रुतपञ्चकृत्यनिरतस्यानन्दमूर्तेर्मुखैः
 
श्रीशम्भोः सह पञ्चभिश्च गिरिजावक्त्रं मिलित्वामलम् ।
यस्य श्रीशिवशक्त्यभिन्नवपुषो वक्त्राब्जषट्काकृतिं
 
धत्ते सोऽसुरवंशभूधरपविः सेनापतिः पातु नः ॥ ७ ॥
यः शक्त्या तारकोरः स्थलमतिकठिनं क्रौनगोत्रं च भित्त्वा
हत्वा तत्सैन्यशेषं निखिलमपि च तान् वीरबाहु प्रमुख्यान् ।
उद्धृत्वा युद्धरङ्गे सपदि च कुसुमैर्वर्षितो नाकिबृन्दैः
पायादायासतोऽस्मान् स झटिति करुणाराशिरीशानसूनुः ॥ ८ ॥
यदूतो वीरबाहुः सपदि जलनिधिं व्योममार्गेण तीर्त्वा
जित्वा लङ्कां समेत्य द्रुतमथ नगरीं वीरमाहेन्द्रनाम्नीम् ।
देवानाश्वास्य शूर प्रहितमपि बलं तत्सभां गोपुरादीन्
 
भित्त्वा यत्पादपद्मं पुनरपि च समेत्यानमत्तं भजेहम् ॥ ९ ॥
 
यो वैकुण्ठादिदेवैः सुतपदकमलो वीरभूतादिसैन्यैः
 

 
६४१
 
संवीत नस्तो [संवीतो यो नभस्तो ] झटिति जलनिधिं द्योपथेनैव तीर्त्वा ।
शूरद्वीपोत्तरस्यां दिशि मणिविलसद्धेमकूट। ख्यपुर्यां
 
त्वष्टुर्निर्माणजायां कृतवसतिरभूत् पातु नः षण्मुखः सः ॥ १० ॥
 
नानाभूतौघविध्वंसित निजपृतनो निर्जितश्च द्विरा-
 
त्यालब्धस्वावमाने निजपितरि ततः सङ्गरे भानुकोपः ।
 
भायी यत्पादभृत्यप्रवरतरमहावीरबाहुप्रणष्ट-
 
प्राणोऽभूत् सोऽतु [नित्यं ] विमलतरमहाश्रेयसे तारकारिः ॥ ११ ॥
 
येन कृच्छ्रेण निहतः सिंहवक्त्रो महाबलः ।
 
द्विसहस्रभुजो भीमः ससैन्यस्तं गुहं भजे ॥ १२ ॥
भूरिभीषणमहायुधारवक्षोभिताब्धिगणयुद्धम[ण्डलः] ।
सिंहवक्त्रशिवपुत्रयो रणः सिंहवक्त्रशिवपुत्रयोरिव ॥ १३ ॥
शूरापत्यगणेषु यस्य गणपैर्नष्टेषु सिंहाननो
 
दैत्यः क्रूरबलोऽसुरेन्द्रसहजः सेनासहस्रैर्युतः ।
 
युद्धे च्छिन्नभुजोत्तमाङ्गनिकरो यद्वाहुवज्राहतो
 
मृत्युं प्राप स मृत्युजन्यभयतो मां पातु वल्लीश्वरः ॥ १४ ॥
 
अष्टोत्तरसहस्राण्डप्राप्तशूरबलं महत् ।
 
क्षणेन यः संहृतवान् स गुहः पातु मां सदा ॥ १५ ॥
 
41