Stotrarnava /687
This page has not been fully proofread.
श्रीषडाननस्तुतिः
येन साक्षाच्चतुर्वक्त्रः प्रणवार्थविनिर्णये ।
कारागृहं प्रापितोऽभूत् सुब्रह्मण्यः स पातु माम् ॥ ६ ॥
कारुण्यद्रुतपञ्चकृत्यनिरतस्यानन्दमूर्तेर्मुखैः
श्रीशम्भोः सह पञ्चभिश्च गिरिजावक्त्रं मिलित्वामलम् ।
यस्य श्रीशिवशक्त्यभिन्नवपुषो वक्त्राब्जषट्काकृतिं
धत्ते सोऽसुरवंशभूधरपविः सेनापतिः पातु नः ॥ ७ ॥
यः शक्त्या तारकोरः स्थलमतिकठिनं क्रौनगोत्रं च भित्त्वा
हत्वा तत्सैन्यशेषं निखिलमपि च तान् वीरबाहु प्रमुख्यान् ।
उद्धृत्वा युद्धरङ्गे सपदि च कुसुमैर्वर्षितो नाकिबृन्दैः
पायादायासतोऽस्मान् स झटिति करुणाराशिरीशानसूनुः ॥ ८ ॥
यदूतो वीरबाहुः सपदि जलनिधिं व्योममार्गेण तीर्त्वा
जित्वा लङ्कां समेत्य द्रुतमथ नगरीं वीरमाहेन्द्रनाम्नीम् ।
देवानाश्वास्य शूर प्रहितमपि बलं तत्सभां गोपुरादीन्
भित्त्वा यत्पादपद्मं पुनरपि च समेत्यानमत्तं भजेहम् ॥ ९ ॥
यो वैकुण्ठादिदेवैः सुतपदकमलो वीरभूतादिसैन्यैः
।
६४१
संवीत नस्तो [संवीतो यो नभस्तो ] झटिति जलनिधिं द्योपथेनैव तीर्त्वा ।
शूरद्वीपोत्तरस्यां दिशि मणिविलसद्धेमकूट। ख्यपुर्यां
त्वष्टुर्निर्माणजायां कृतवसतिरभूत् पातु नः षण्मुखः सः ॥ १० ॥
नानाभूतौघविध्वंसित निजपृतनो निर्जितश्च द्विरा-
त्यालब्धस्वावमाने निजपितरि ततः सङ्गरे भानुकोपः ।
भायी यत्पादभृत्यप्रवरतरमहावीरबाहुप्रणष्ट-
प्राणोऽभूत् सोऽतु [नित्यं ] विमलतरमहाश्रेयसे तारकारिः ॥ ११ ॥
येन कृच्छ्रेण निहतः सिंहवक्त्रो महाबलः ।
द्विसहस्रभुजो भीमः ससैन्यस्तं गुहं भजे ॥ १२ ॥
भूरिभीषणमहायुधारवक्षोभिताब्धिगणयुद्धम[ण्डलः] ।
सिंहवक्त्रशिवपुत्रयो रणः सिंहवक्त्रशिवपुत्रयोरिव ॥ १३ ॥
शूरापत्यगणेषु यस्य गणपैर्नष्टेषु सिंहाननो
दैत्यः क्रूरबलोऽसुरेन्द्रसहजः सेनासहस्रैर्युतः ।
युद्धे च्छिन्नभुजोत्तमाङ्गनिकरो यद्वाहुवज्राहतो
मृत्युं प्राप स मृत्युजन्यभयतो मां पातु वल्लीश्वरः ॥ १४ ॥
अष्टोत्तरसहस्राण्डप्राप्तशूरबलं महत् ।
क्षणेन यः संहृतवान् स गुहः पातु मां सदा ॥ १५ ॥
41