Proofing

2026-04-07 03:20:36 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
६४०
 
श्री सुब्रह्मण्यस्तोत्रेषु
 
</ignore>
<verse><add>
[त्वां देवदेवं समुपाश्रितानां

स्तोत्रेण चैतेन कुलं करोषि ।

आर्यात्मजं देवगणाधिसेव्यं
 

ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ६ ॥]
 
</add></verse>
<verse>
द्विषड्भुजं षण्मुखमम्बिकासुतं

कुमारमादित्यसमानतेजसम् ।

वन्दे मयूरासनमग्निसन्निभं
 

सेनापतिं स्कन्दमभीष्टसिद्धये ॥ ७ ॥
 
</verse>
<trailer text="2_END">
॥ इति श्री सुब्रह्मण्यस्तोत्रं सम्पूर्णम् ॥
 
</trailer>
<title text="3_START">
३. ॥ अथ श्रीषडाननस्तुतिः ॥
</title>
<verse>
श्रीगौरीसहितेशफालनयनादुद्भूतमग्न्याशुग-

व्यूढं विष्णुपदीपयश्शरवणे सम्भूतमन्यादृशम् ।

षोढ । ढाविग्रह सुन्दरास्यममलं श्री कृत्तिकाप्रीतये
 

शर्वाण्यङ्कविभूषणं स्फुरतु मच्चित्ते गुहाख्यं महः ॥ १ ॥
 
</verse>
<verse>
त्रिषडकुशदृन्ब् ष्षण्मुख (खाम्भोरुहश्रीः
 

द्विषडतुलभुजाढ्यः कोटिकन्दर्पशोभः ।
 

शिखिवरमधिरूढः शिक्षयन् सर्वलोकान्
 

कलयतु मम भव्यं कार्तिकेयो महात्मा ॥ २ ॥
 
</verse>
<verse>
यद्रूपं निर्गुणं ते तदिह गुणमहायोगिभिर्ध्यानगम्यं

यच्चान्यद्विश्वरूपं तदवधितया योगिभिश्चाप्यचिन्त्यम् ।

षड्वक्त्राष्टादशाक्षाद्युपहितकरुणामूर्तिरेषैव भाति
 

स्वाराध्याशेषदुःख प्रशमनबहुलीलास्पदा चाप्यतुल्या ॥ ३ ॥
 
</verse>
<verse>
यच्छ्रीमत्पादपङ्केरुहयुगलमहापादुके स्वस्वमूर्ध्ना
 

धर्तुतुं विष्णुप्रमुख्या अपि च सुमनसः प्रागकुर्वंस्तपांसि ।

तत्तादृक्स्थूलभूतं पदकमलयुगं योगिहृद्ध्यानगम्यं
 
श्री

श्री
सुब्रह्मण्य साक्षात् स्फुरतु मम हृदि त्वत्कटाक्षेण नित्यम् ॥ ४ ॥
 
</verse>
<verse>
यस्य श्रीशमुखामराश्च जगति क्रीडां <add>[च]</add> बाल्योद्भवां
 

चित्रारोपितमानुषा इव समालोक्याभवंस्तम्भिताः ।
 

लोकोपद्रवकृत्स नारदपशुर्यस्याभवद्वाहनं
 

सोऽस्मान् पातु निरन्तरं करुणया श्रीबालषाण्मातुरः ॥ ५ ॥
 
</verse>
</page>