Proofing

2026-04-03 16:54:06 by ambuda-bot

This page has not been fully proofread.

६४०
 
श्री सुब्रह्मण्यस्तोत्रेषु
 
[त्वां देवदेवं समुपाश्रितानां
स्तोत्रेण चैतेन कुलं करोषि ।
आर्यात्मजं देवगणाधिसेव्यं
 
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ६ ॥]
 
द्विषड्भुजं षण्मुखमम्बिकासुतं
कुमारमादित्यसमानतेजसम् ।
वन्दे मयूरासनमग्निसन्निभं
 
सेनापतिं स्कन्दमभीष्टसिद्धये ॥ ७ ॥
 
॥ इति श्री सुब्रह्मण्यस्तोत्रं सम्पूर्णम् ॥
 
३. ॥ अथ श्रीषडाननस्तुतिः ॥
श्रीगौरीसहितेशफालनयनादुद्भूतमग्न्याशुग-
व्यूढं विष्णुपदीपयश्शरवणे सम्भूतमन्यादृशम् ।
षोढ । विग्रह सुन्दरास्यममलं श्री कृत्तिकाप्रीतये
 
शर्वाण्यङ्कविभूषणं स्फुरतु मच्चित्ते गुहाख्यं महः ॥ १ ॥
 
त्रिषडकुशहगन्ज षण्मुख (म्भोरुहश्रीः
 
द्विषडतुलभुजाढ्यः कोटिकन्दर्पशोभः ।
 
शिखिवरमधिरूढः शिक्षयन् सर्वलोकान्
 
कलयतु मम भव्यं कार्तिकेयो महात्मा ॥ २ ॥
 
यद्रूपं निर्गुणं ते तदिह गुणमहायोगिभिर्ध्यानगम्यं
यच्चान्यद्विश्वरूपं तदवधितया योगिभिश्चाप्यचिन्त्यम् ।
षड्वक्त्राष्टादशाक्षाद्युपहितकरुणामूर्तिरेषैव भाति
 
स्वाराध्याशेषदुःख प्रशमनबहुलीलारपदा चाप्यतुल्या ॥ ३ ॥
 
यच्छ्रीमत्पादपङ्केरुहयुगलमहापादुके स्वस्वमूर्ध्ना
 
धर्तु विष्णुप्रमुख्या अपि च सुमनसः प्रागकुर्वस्तपांसि ।
तत्तादृक्स्थूलभूतं पदकमलयुगं योगिहृद्ध्यानगम्यं
 
श्री सुब्रह्मण्य साक्षात् स्फुरतु मम हृदि त्वत्कटाक्षेण नित्यम् ॥ ४ ॥
 
यस्य श्रीशमुखामराव जगति क्रीडां [च] बाल्योद्भवां
 
चित्रारोपितमानुषा इव समालोक्याभवंस्तम्भिताः ।
 
लोकोपद्रवकृत्स नारदपशुर्यस्याभवद्वाहनं
 
सोऽस्मान् पातु निरन्तरं करुणया श्रीबालषाण्मातुरः ॥ ५ ॥