Proofing

2026-04-02 21:26:25 by ambuda-bot

This page has not been fully proofread.

१५
 
श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रम्
 
चैतन्यधृतिरव्यग्रः सर्वज्ञः सर्वशत्रुभृ[ह]त् ।
 
सर्वाग्रः समरानन्दी संसिद्धगणनायकः ॥ १६ ॥
साम्बप्रमोदको वत्री मानसो मोदकप्रियः ।
 
एकदन्तो बृहत्कुक्षिः [दीर्घतुण्डो ] विकर्णकः ॥ १७ ॥
ब्रह्माण्डकन्दुकश्चित्रवर्णश्चित्ररथासनः ।
 
तेजस्वी तीक्ष्णधिषणः शक्तिवृन्दनिषेवितः ॥ १८ ॥
 
परापराश्च पश्यन्ती प्राणनाथः प्र [म]त्तहृत् । (?)
संक्किष्टमध्यमस्पष्टो वैखरीजनकः शुचिः ॥ १९ ॥
धर्मप्रवर्तकः कामो भूमिस्फुरितविग्रहः ।
तपस्वी तरुणोल्लासी योगिनी भोगतत्परः ॥ २० ॥
जितेन्द्रियो जयश्रीको जन्ममृत्युविदारणः ।
जगद्गुरुरमेयात्मा जङ्गमस्थावरात्मकः ॥ २१ ॥
नमस्कारप्रियो नानामतभेदविभेदकः ।
 
नयवित् समदृक् शूरः सर्वलोकैकशासनः ॥ २२ ॥
विशुद्धविक्रमो वृद्धः संवृद्धः ससुहृद्गणः ।
सर्वसाक्षी सदानन्दी सर्वलोकप्रियङ्करः ॥ २३ ॥
सर्वातीतः समरसः सत्यावासः सतां गतिः ।
इति विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् ॥ २४ ॥
यः पठेच्छृणुयाद्वापि नित्यं भक्तिसमन्वितः ।
तस्य साधकवर्यस्य सर्वावस्थासु सर्वदा ।
नासाध्यमस्ति किमपि विद्याविघ्नेश्वरात्मज [नः ] ॥ २५ ॥
 
॥ इति [ महाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे शङ्करविरचिते]
श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥