Proofing

2026-05-08 05:39:22 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>१४ श्रीगणेशस्तोत्रेषु</ignore>
<ptitle>९ ॥ श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रम् ॥</ptitle>
<verse>श्रीमद्विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् ।
वक्ष्यामि शृणु देवेशि सावधानेन चेतसा ॥ १ ॥</verse>
<verse>सर्वपापप्रशमनं सर्वविघ्ननिवारकम् ।
सर्वरोगहरं दिव्यं साधकाभीष्टदायकम् ॥ २ ॥</verse>
<verse>ब्रह्मादयः सुराः सर्वे वसिष्ठाद्या मुनीश्वराः ।
विद्यागणाधिनाथस्य चक्राराधनतत्पराः ॥ ३ ॥</verse>
<verse>स्तोत्रेणानेन सम्पूज्य जप्त्वा स्वे स्वे पदे स्थिताः ।
सुखिनोऽद्यापि दृश्यन्ते सद्यः सन्तुष्टमानसाः ॥ ४ ॥</verse>
<verse>तादृशं परमं दिव्यं प्रत्यक्षफलदायकम् ।
यः पठेत् प्रातरुत्थाय चिन्तयेन्मूर्ध्नि <delete>वे</delete><add>[बा]</add>लकम् <add>?</add> ॥ ५ ॥</verse>
<verse>स सर्वदुरितान्मु<delete>क्त्वा</delete><add>[क्तो]</add> सर्वान् कामानवाप्नुयात् ।
चक्रपूजाविधानेन प्रयाणे समुपस्थिते ॥ ६ ॥</verse>
<verse>शोभनेषु समस्तेषु कार्येष्वन्येषु बुद्धिमान् ।
स्तोत्रेणानेन सम्पूज्य जप्त्वाभीष्टमवाप्नुयात् ॥ ७॥</verse>
<verse>धान्यकामी लभेद्धान्यं धनकामी धनं लभेत् ।
सन्तानकामी सन्तानं क्षेत्रार्थी क्षेत्रमुत्तमम् ॥ ८ ॥</verse>
<verse>सर्वं लभेत् सर्वकामी निष्कामी तत्फलं लभेत् ।
विद्यागणपतिर्विघ्नहरो गजमुखोऽव्ययः ॥ ९ ॥</verse>
<verse>विज्ञानात्मा वियत्कायो विश्वाकारो विनायकः ।
विश्वसृग्विश्वभुग्विश्वसंहर्ता विश्वगोपनः ॥ १० ॥</verse>
<verse>विश्वानुग्राहकः सत्यः <delete>शिवस्तुल्य</delete><add>[शिवतुल्यः]</add> शिवात्मजः ।
विचित्रनर्तनो वीरो विश्वसन्तोषवर्धनः ॥ ११ ॥</verse>
<verse>विमर्शी विमलाचारो विश्वाकारो विनायकः ।
स्वतन्त्रः सुलभः खर्चः सुमुखः सुखबोधकः ॥ १२ ॥</verse>
<verse>सूर्याग्निशशिदृक् सोमकलाचूडः सुखा<delete>न</delete><add>[स]</add>नः ।
स्वप्रकाशः <delete>सुधावक्रः</delete><add>[स्वधावक्त्रः]</add> स्वयं <delete>वक्त्रः</delete><add>[व्यक्तः]</add> स्मृतिप्रियः॥१३॥</verse>
<verse>शक्तीशः शङ्करः शम्भुः प्रभुर्विभुरुमासुतः ।
शान्तः शतमखाराध्यश्चतुरश्चक्रनायकः ॥ १४ ॥</verse>
<verse>कालजित् करुणामूर्तिरव्यक्तः शाश्वतः शुभः ।
उग्रकर्मोदितानन्दी शिवभक्तः शिवान्तरः ॥ १५ ॥</verse>
</page>