Stotrarnava /60
This page has not been fully proofread.
१४
श्रीगणेशस्तोत्रेषु
९ ॥ श्रीविद्या गणेशाष्टोत्तरशतनामस्तोत्रम् ॥
श्रीमद्विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् ।
वक्ष्यामि शृणु देवेशि सावधानेन चेतसा ॥ १ ॥
सर्वपापप्रशमनं सर्वविघ्ननिवारकम् ।
सर्वरोगहरं दिव्यं साधकाभीष्टदायकम् ॥ २ ॥
ब्रह्मादयः सुराः सर्वे वसिष्टाद्या मुनीश्वराः ।
विद्या गणाधिनाथस्य चक्राराधनतत्पराः ॥ ३ ॥
स्तोत्रेणानेन सम्पूज्य जप्त्वा स्वे स्वे पदे स्थिताः ।
सुखिनोऽद्यापि दृश्यन्ते सद्यः सन्तुष्टमानसाः ॥ ४ ॥
तादृशं परमं दिव्यं प्रत्यक्षफलदायकम् ।
यः पठेत् प्रातरुत्थाय चिन्तयेन्मूर्ध्नि वे[बा]लकम् ? ॥ ५ ॥
स सर्वदुरितान्मुक्त्वा [क्तो] सर्वान् कामानवाप्नुयात् ।
चक्र पूजाविधानेन प्रयाणे समुपस्थिते ॥ ६ ॥
शोभनेषु समस्तेषु कार्येष्वन्येषु बुद्धिमान् ।
स्तोत्रेणानेन सम्पूज्य जप्त्वाभीष्टमवाप्नुयात् ॥ ७॥
धान्यकामी लभेद्धान्यं धनकामी धनं लभेत् ।
सन्तानकामी सन्तानं क्षेत्रार्थी क्षेत्रमुत्तमम् ॥ ८ ॥
सर्वं लभेत् सर्वकामी निष्कामी तत्फलं लभेत् ।
विद्यागणपतिर्विन्नहरो गजमुखोऽव्ययः ॥ ९ ॥
विज्ञानात्मा वियत्कायो विश्वाकारो विनायकः ।
विश्वसृग्विश्वभुग्विश्वसंहर्ता विश्वगोपनः ॥ १० ॥
विश्वानुग्राहकः सत्यः शिवस्तुल्य [शिवतुल्यः ] शिवात्मजः ।
विचित्रनर्तनो वीरो विश्वसन्तोषवर्धनः ॥ ११ ॥
विमर्शी विमलाचारो विश्वाकारो विनायकः ।
स्वतन्त्रः सुलभः खर्चः सुमुखः सुखबोधकः ॥ १२ ॥
सूर्याग्निशशिदृक् सोमकलाचूडः सुखान[स]नः ।
स्वप्रकाशः सुधावक्रः[स्वधावक्त्रः ] स्वयं वक्त्रः[व्यक्तः ] स्मृतिप्रियः॥१३॥
शक्तीशः शङ्करः शम्भुः प्रभुर्विभुरुमासुतः ।
शान्तः शतमखाराध्यश्चतुरश्चक्रनायकः ॥ १४ ॥
कालजित् करुणामूर्तिरव्यक्तः शाश्वतः शुभः ।
उ कर्मोदितानन्दी शिवभक्तः शिवान्तरः ॥ १५ ॥