Proofing

2026-04-03 16:53:33 by ambuda-bot

This page has not been fully proofread.

५१२
 
प्रकीर्णस्तोत्रेषु
 
अम्बुजासनार्चित विडम्बमानसोज्ज्वलं
 
कराम्बुजाम्बुधीश्वरं महाम्बुशक्तिधारिणम् ।
कुम्भिनीमहारथं[च]जम्भ भेदिवन्दितं
 
त्रियम्बि (कुम्भि) काधवं [शिवं ] चिदम्बरेश्वरं भजे ॥ ५ ॥
 
वटविटपिसमीपे भूमिभागे निषण्णं
 
सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेददक्षं नमामि ॥ ६ ॥
 
॥ इति श्रीपञ्चलिङ्गस्तोत्रं सम्पूर्णम् ॥
 
३०. ॥ अथ श्रीमहादेवाष्टकम् ॥
 
मोक्षलक्ष्मीगृहद्वारकवाटोद्घाटनध्वनिः ।
 
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ १ ॥
 
वैवस्वतमहाराजमौलिसङ्कुट्टनध्वनिः ।
 
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ २ ॥
कैलासनगरद्वारमहाघण्टारवध्वनिः ।
 
महादेव महादेव महादेवेत्ययं ध्वानिः ॥ ३॥
 
महापातकमत्तेभत्रासकण्ठीरवध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ४ ॥
महेश्वरमहोक्षस्य घण्टाघणघणध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ५ ॥
मुक्त्यङ्गनाकरस्पर्शविवाहपटहध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ६ ॥
मत्सेवनासमायातजयश्री दुन्दुभिध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ७॥
 
पापाटवीप्रविष्टाग्निज्वालाचटचटध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ८ ॥
 
महादेवस्य वाग्वल्ली चतुरक्षरपल्लवा ।
भक्तिसिद्धा भवत्येषा चतुर्वर्गफलप्रदा ॥ ९ ॥
 
॥ इति श्रीमहादेवाष्टकं सम्पूर्णम् ॥