Proofing

2026-04-03 16:53:33 by ambuda-bot

This page has not been fully proofread.

श्रीपञ्चलिङ्गस्तोत्रम्
 
५११
 
अत्रष्टयाष्ट[अष्टत्रयाष्ट]पुरवायुविकारकोशक्लेशाष्टपाशबहुदुःखविनाशमन्त्रम् ।
दुश्चिन्तदुर्व्यसनदातृविभेदमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ५ ॥
 
पञ्च प्रसादमहिताक्षरबीजमन्त्रं मन्त्राग्रगण्यभुवनस्तुतमन्त्रराजम् ।
सर्वोऽपि मन्त्रजनक प्रणवात्ममन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ६॥
ओङ्कारबिन्दुसहिताधिकशक्तिबीजं पश्चाक्षरत्रितयवर्णकमेकवर्णम्
एकादशाक्षरसमन्वितहंसमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ७ ॥
श्रीसज्जनात्मबहिरन्तरदी (त्कराम) [प्तिकृद्र ]क्षाभागगर्भितनिरन्तरघोषमन्त्रम् ।
षट्चक्रमण्टपविहारविशुद्धमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ८ ॥
षडवर्णमन्त्राष्टकमद्भुतार्थं सर्वागमप्रोक्तजगत्प्रकाशम् ।
 
यः संपठेन्मुक्तिसमस्तभोगान् प्राप्नोति सत्यं सति सिद्धमन्त्रम् ॥ ९ ॥
॥ इति श्रीषड्वर्णमन्त्राष्टकं सम्पूर्णम् ॥
 
२९. ॥ अथ श्रीपञ्चलिङ्गस्तोत्रम् ॥
 
ताम्रयुग्विलेपितं दिगम्बरोपशोभितं
 
वनभ्रमाद्विहारितं विडम्बिताण्डवं नटम् ।
धूम्रयुक्तलोचनं सधूम्रदिव्यभाषितं
महाप्रतिष्ठमुर्वितमेकाम्बरेश्वरं भजे ( ? ) ॥ १ ॥
 
ध्यायते सुनिर्गुणं सहायते सुरावलिं
हयायते चतुःश्रुतिं हरायते महाखलम् ।
लीयते चराचरं प्रभायते चतुर्यमं [च यामिनीं ]
प्रीयते विशाखज [म] म्बुनायकेश्वरं भजे ॥ २ ॥
 
बाणभक्तवत्सलं कृपाणहस्तमण्डितं
 
करेण चैणधारिणं पुराणपौरुषाश्चितम् ।
स्थाणुरूपरञ्जनं प्रमाणमग्निसेवनं
 
धुरीणलोकधारिणं च शोणनायकं भजे ॥ ३ ॥
 
निस्तुलप्रशस्त सुप्रशस्तनन्दिवाहनं
 
करस्थले धनञ्जयं भुजस्थले फणाधरम् ।
 
अस्थिमाल्यशोभितं पदस्थलं सुवायुसे-
 
वितस्थलप्रबोधकालहस्तिनायकं भजे ॥ ४॥