Proofing

2026-04-03 16:53:32 by ambuda-bot

This page has not been fully proofread.

५०८
 
प्रकीर्णस्तोत्रेषु
 
वडवामुखवह्निश्च ज्वलत्यब्धौ यदाज्ञया ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ३ ॥
भूतान्यपि विरुद्धानि मिलितानि यदाज्ञया ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ४ ॥
फलमन्वेति कर्तारं कर्मणां यस्य शासनात् ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ५ ॥
विनाधारं जगद्येन साधारमिव निश्चलम् ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ६॥
औषधे वा मणौ मन्त्रे भाति शक्तिर्यदाज्ञया ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥७॥
नात्येति समयं ज्योतिः सिन्धुः कालश्च यद्भयात् ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ८॥
ब्रह्माच्युताद्यविदितं च शिरः पदं ते
 
नासा शिलाविहित
 
...
 
सुहृत् प्रियायाः ।
 
तस्मै नमोऽस्तु भवते प्रणतार्तिहन्त्रे
 
त्यागेश्वराय मयि देहि दयावलोकम् ॥ ९ ॥
॥ इति श्रीत्यागेशस्तुतिः सम्पूर्णा ॥
 
२६. ॥ अथ श्रीत्यागराजस्तवः ॥
 
नीलकन्धर फाललोचन बालचन्द्रशिरोमणे
 
कालकाल कपालमाल हिमालयाचलजापते ।
 
शूलहस्त नमूल शङ्कर मूलयोगिवरस्तुत
 
त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ १ ॥
 
हारकुण्डलमौलिकङ्कणकिङ्किणीकृतपन्नग
 
भूतिगात्र कुबेर मित्र कलत्रपुत्रसमावृत ।
नारदादिमुनीन्द्रसंनुत नागचर्मकृताम्बर
 
त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ २ ॥
 
भूतनाथ परान्तकातुलभुक्तिमुक्तिसुखप्रद
 
शीतलामलमन्दमारुतसेव्यदिव्यकलेबर ।
 
लोकनायक पाकशासनशोकवारणकारण
 
त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥३॥