Stotrarnava /553
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीत्यागेशस्तुतिः ५०७</ignore>
<verse>ईशानस्त्वं सर्वविद्याधिनाथ उद्गी<delete>त</delete><add>[थ]</add>स्त्वं वाचकस्त्वं तथैवोम् ।
माता मानं मातृकाख्यानसिद्धिः शब्दादीनां मूलमीशस्तथैवोम् ॥ २ ॥</verse>
<verse>नमस्ते रुद्रस्त्वं श्रुतिगतमनोऽन्तैकवचसां
भवानन्तो नाथो नतिकरणनानाविधतनुः ।
न हि त्वत्तो भिन्नं जगदपि च नानैव हि मृषा
नमः शेषी देवो न हि शिव विवादः श्रुतिबलात् <add>(?)</add> ॥ ३ ॥</verse>
<verse>महानात्मा मायाविरहितशरीरो मनुगतो
महेशो मन्त्रार्थस्त्वमसि मतिदाता मनसिगः ।
मनस्वी मध्यस्थो मरणज<error>ना</error><fix>न</fix>नाद्यन्तरहितो
मधुर्मन्ता माता भवसि हर मन्वर्चितपदः ॥ ४ ॥</verse>
<verse>शिवः शिष्टो निष्ठो भवसि शिपिविष्टः शिवतरः
सिनीवाल्यः खल्यः शशिधर शिखासूक्तिमहिमा ।
शिखी नेत्रो यन्ता भवसि शितिकण्ठस्त्वमसिधृक्
शतावर्तो हर्ता त्वमसि भवहर्तासि जगताम् <add>(?)</add> ॥ ५ ॥</verse>
<verse>वाहीकृतोक्ष भगवन् हर वामदेव
वाताशनाधिपतिभूषितदिव्यकाय ।
वास्तव्यवास्तुप महेश्वर वामनेत्रा-
कॢप्तार्धकाय भगवन् नववारणारे ॥ ६ ॥</verse>
<verse>यतो जातं विश्वं यमयति तथान्ते च यदृते
न हि स्वस्थं यस्मान्न भवति तथा नो नगतिकम् ।
यमात्मानं सर्वे न हि खलु विजानन्ति तमसः
परं पारं यत्तद्भवसि यततां वै नियमिता ॥ ७ ॥</verse>
<pverse>पञ्चाक्षरार्थस्तवमेत<delete>(दे)</delete><add>[मे]</add>वं पठन्ति ये <delete>(वाध्यवसन्तमांशिवे)</delete> <add>[चाध्यवसायवन्तः]</add>।
त एव धन्या जगतीतलेऽस्मिन् तेषां हि मुक्तिः करगा भवेन्ननु ॥ ८ ॥</pverse>
<trailer text="24_END">॥ इति श्रीशिवपञ्चाक्षरार्थस्तवः सम्पूर्णः ॥</trailer>
<title text="25_START">२५. ॥ अथ श्रीत्यागेशस्तुतिः ॥</title>
<verse>यस्याज्ञया नवच्छिद्रे स्तब्धस्तिष्ठति मारुतः ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ १ ॥</verse>
<verse>शासनात् पावको यस्य सर्वेषामन्तरा स्थितः ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ २ ॥</verse>
</page>
<ignore>श्रीत्यागेशस्तुतिः ५०७</ignore>
<verse>ईशानस्त्वं सर्वविद्याधिनाथ उद्गी<delete>त</delete><add>[थ]</add>स्त्वं वाचकस्त्वं तथैवोम् ।
माता मानं मातृकाख्यानसिद्धिः शब्दादीनां मूलमीशस्तथैवोम् ॥ २ ॥</verse>
<verse>नमस्ते रुद्रस्त्वं श्रुतिगतमनोऽन्तैकवचसां
भवानन्तो नाथो नतिकरणनानाविधतनुः ।
न हि त्वत्तो भिन्नं जगदपि च नानैव हि मृषा
नमः शेषी देवो न हि शिव विवादः श्रुतिबलात् <add>(?)</add> ॥ ३ ॥</verse>
<verse>महानात्मा मायाविरहितशरीरो मनुगतो
महेशो मन्त्रार्थस्त्वमसि मतिदाता मनसिगः ।
मनस्वी मध्यस्थो मरणज<error>ना</error><fix>न</fix>नाद्यन्तरहितो
मधुर्मन्ता माता भवसि हर मन्वर्चितपदः ॥ ४ ॥</verse>
<verse>शिवः शिष्टो निष्ठो भवसि शिपिविष्टः शिवतरः
सिनीवाल्यः खल्यः शशिधर शिखासूक्तिमहिमा ।
शिखी नेत्रो यन्ता भवसि शितिकण्ठस्त्वमसिधृक्
शतावर्तो हर्ता त्वमसि भवहर्तासि जगताम् <add>(?)</add> ॥ ५ ॥</verse>
<verse>वाहीकृतोक्ष भगवन् हर वामदेव
वाताशनाधिपतिभूषितदिव्यकाय ।
वास्तव्यवास्तुप महेश्वर वामनेत्रा-
कॢप्तार्धकाय भगवन् नववारणारे ॥ ६ ॥</verse>
<verse>यतो जातं विश्वं यमयति तथान्ते च यदृते
न हि स्वस्थं यस्मान्न भवति तथा नो नगतिकम् ।
यमात्मानं सर्वे न हि खलु विजानन्ति तमसः
परं पारं यत्तद्भवसि यततां वै नियमिता ॥ ७ ॥</verse>
<
त एव धन्या जगतीतलेऽस्मिन् तेषां हि मुक्तिः करगा भवेन्ननु ॥ ८ ॥</