Stotrarnava /553
This page has not been fully proofread.
श्रीत्यागेशस्तुतिः
ईशानस्त्वं सर्वविद्याधिनाथ उद्गीत[थ ] स्त्वं वाचकस्त्वं तथैवोम् ।
माता मानं मातृकाख्यानसिद्धिः शब्दादीनां मूलमीशस्तथैवोम् ॥ २ ॥
नमस्ते रुद्रस्त्वं श्रुतिगतमनोऽन्तैकवचसां
भवानन्तो नाथो नतिकरणनानाविधतनुः ।
न हि त्वत्तो भिन्नं जगदपि च नानैव हि मृषा
नमः शेषी देवो न हि शिव विवादः श्रुतिबलात् (?) ॥ ३ ॥
महानात्मा मायाविरहितशरीरो मनुगतो
महेश मन्त्रार्थस्त्वमसि मतिदाता मनसिगः ।
मनस्वी मध्यस्थो मरणजनानाद्यन्तरहितो
मधुर्मन्ता माता भवसि हर मन्वर्चितपदः ॥ ४ ॥
शिवः शिष्टो निष्ठो भवसि शिपिविष्टः शिवतरः
सिनीवाल्यः खल्यः शशिधर शिखासूक्तिमहिमा ।
शिखी नेत्रो यन्ता भवसि शितिकण्ठस्त्वमसिधृक्
शतावर्ती हर्ता त्वमसि भवहर्तासि जगताम् (१) ॥ ५ ॥
वाहीकृतोक्ष भगवन् हर वामदेव
वाताशनाधिपतिभूषितदिव्यकाय ।
वास्तव्यवास्तुप महेश्वर वामनेत्रा -
क्लृप्तार्धकाय भगवन नववारणारे ॥ ६ ॥
यतो जातं विश्वं यमयति तथान्ते च यदृते
न हि स्वस्थं यस्मान्न भवति तथा नो नगतिकम् ।
यमात्मानं सर्वे न हि खलु विजानन्ति तमसः
परं पारं यत्तद्भवसि यततां वै नियमिता ॥ ७ ॥
५०७
पश्चाक्षरार्थस्तवमेत(दे)[मे]वं पठन्ति ये ( वाध्यवसन्त मां शिवे ) [चाध्यवसायवन्तः]।
त एव धन्या जगतीतलेऽस्मिन् तेषां हि मुक्तिः करगा भवेन्ननु ॥ ८ ॥
॥ इति श्रीशिवपञ्चाक्षरार्थस्तवः सम्पूर्णः ॥
२५. ॥ अथ श्रीत्यागेशस्तुतिः ॥
यस्याज्ञया नवच्छिद्रे स्तब्धस्तिष्ठति मारुतः ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ १ ॥
शासनात् पावको यस्य सर्वेषामन्तरा स्थितः ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ २ ॥