Proofing

2026-04-03 16:53:32 by ambuda-bot

This page has not been fully proofread.

1
 
• ५०६
 
प्रकीर्णस्तोत्रेषु
 
नव्याम्भोजमुखं नमज्जननिधिं नारायणेनार्चितं
नाकौकोनगरीन टीलसितकं नागादिनालङ्कृतम् ।
नानारूपक (नृत्त) [नर्त]नादिचतुरं नालीकजान्वेषितं
नादात्मानमहं नगेन्द्रतनयानाथं नटेशं भजे ॥ ३ ॥
मध्यस्थं मधुवैरिमार्गितपदं मद्वंशनाथं प्रभुं
 
मातीतमतीव मजुवपुषं मन्दारगौरप्रभम् ।
मायातीतमशेषमङ्ग [ल] निधिं मद्भावनाभावितं
 
मध्ये व्योमस भागुहान्तमखिलाकाशं नटेशं भजे ॥ ४ ॥
शिष्टः पूजितपादुकं शिवकरं शीतांशुरेखाधरं
 
शिल्पं भक्तजनावने शिथिलिताघौघं शिवायाः प्रियम् ।
शिक्षारक्षणमम्बु (शा) [जा] सनशि (रोबं) [रस्सं] हारशीलप्रभुं
शीतापाङ्गविलोचनं शिवमहं श्रीमन्नदेशं भजे ॥ ५ ॥
वाणीवल्लभवन्द्यवैभवयुतं वन्दारुचिन्तामणि
 
वाताशाधिपभूषणं परकृपावारांनिधिं योगिनाम् ।
वाच्छा पूर्तिकरं वलारिविनुतं वाहीकृताम्नायकं
वामङ्गात्तवराङ्गना [नं] मम हृदावासं नटेशं भजे ॥ ६ ॥
यक्षाधीशसखं यमप्रमथनं यामिन्यधीशासनं
 
यज्ञध्वंसकरं यतीन्द्रविनुतं यज्ञक्रियादीश्वरम् ।
याज्यं याजकरूपिणं यमधनैर्यत्नोपलभ्याङ्घ्रिकं
 
(या) [वा ] जीभूतवृषं सदा हृदि ममायत्तं नटेशं भजे ॥ ७ ॥
मायाश्रीविलसच्चिदम्बर महापञ्चाक्षरैरङ्कितान्
 
लोकान् सप्त पठन्ति येऽनुदिवसं चिन्तामणीनामकान् ।
तेषां भाग्यमनेकमायुरधिकान् वि (ध्यध्व) [द्वद्व ] रान् सत्सुतान्
सर्वाभीष्टमसौ ददाति सहसा श्रीमत्सभाधीश्वरः ॥ ८ ॥
 
॥ इति श्रीनटेशस्तवः सम्पूर्णः ॥
 
२४. ॥ अथ श्रीपञ्चाक्षरार्थस्तवः ॥
॥ षडक्षरश्लोकाः ॥
 
ओमित्येकाक्षरोऽसि प्रकृतिविरहितस्त्वोमितीदं च सर्वं ।
 
...
 
त्वत्तो भिन्नं न चैतच्छिव तव महिमां [महितं ] वक्ति वेदः सदैवोम् ।
 
...
 
...
 
. . .
 
. 113 11