Proofing

2026-05-08 06:00:04 by akprasad

This page has been fully proofread once and needs a second look.


 
1
 
'
 
<page>
<ignore>
श्रीमहागणपतिकवचम्
 
</ignore>
<verse>
श्रीपार्वत्युवाच -
--
ओं मन्नाथ जगतां नाथ मम प्रेरणकारण ।
 

गणेशस्य तु यन्मन्त्रं श्रुतं देव महेश्वर ॥ २ ॥
</verse>
<verse>
इदानीं श्रोतुमिच्छामि कवचं तस्य दुर्लभम् ।

तद्वदस्व दयासिन्धो कृपया मम शङ्कर ॥ ३ ॥
</verse>
<verse>
श्री ईश्वर उवाच -
 
--
शृणु देवि महाभागे गणेशकवचं परम् ।
 

यद्धृत्वा पठनात् सद्यो विघ्ननाशो भविष्यति ॥ ४ ॥
</verse>
<verse>
विष्णुना कथितं पुण्यं कवचं ब्रह्मणे मुदा ।

पठित्वा कृतवान् सृष्टिमेकभावः पितामहः ॥ ५ ॥
</verse>
<verse n="6">
कवचस्यास्य देवस्य ऋषिर्देवो महेश्वरः ।

छन्दो विराट् देवता च गणेशो विघ्ननायकः ।

धर्मार्थकाम<ref>1</ref>मोक्षार्थे विनियोगः प्रकीर्तितः ॥ ६॥
 
</verse>
<p n="mangala">
श्रीमहागणपतये नमः
 

 
</p>
<p n="viniyoga">ओं
अस्य श्रीमहागणपतिकवच स्तोत्रमहामन्त्रस्य, श्रीमहेश्वर ऋषिः, विराट्

छन्दः, श्रीमहागणपतिर्देवता । श्रीमहागणपतिप्रसादसिद्ध्यर्थे धर्मार्थकाममोक्ष-

चतुर्विधफलपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॥
 
</p>
<verse n="7">
ओं गं पातु मस्तकं देवो गणनाथो महाबलः ।

एकाक्षरो महामन्त्रो सर्वदेवनमस्कृतः ॥ ७ ॥
 
</verse>
<ignore>
अगजाननपद्मार्के गजाननमाहर्निशम् ।

अनेकंदं त भक्तानामेकदन्तमुपास्महे ॥ ६॥
</ignore>
<ignore>
अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने ।

समस्त जगदाधारमूर्तये ब्रह्मणे नमः ॥ ७ ॥
</ignore>
<ignore>
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरू रुद्रो महेश्वरः ।
 

गुरु: सदाशिवः सर्वे तस्मै श्रीगुरवे नमः ॥ ८ ॥
</ignore>
<ignore>
गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।

निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ ९ ॥
 
</ignore>
<ignore>
यं ब्रह्म वेदान्तविदो वदन्ति
 

परं प्रधानं पुरुषं तथान्ये ।
 

विश्वोद्गतेः कारणमीश्वरं वा [च]
 

तस्मै नमो विघ्नविनायकाय ॥ १० ॥
 
</ignore>
<footnote>
1. काम्य-
 
</footnote>
</page>