Stotrarnava /548
This page has been fully proofread once and needs a second look.
<page>
<ignore>५०२
प्रकीर्णस्तोत्रेषु
</ignore>
<verse>ज्ञानमुद्रालसद्वक्षोबाहुं ज्ञानमयं हरिम् ।
वामजानूपरिन्यस्तवामहस्ताम्बुजं प्रभुम् ॥ ५ ॥
</verse>
<verse>वीरासने समासीनं विद्युत्पुञ्ज निभाम्बरम् ।
कोटिसूर्यप्रतीकाशं कोमला<add>[ङ्गसमु]</add>ज्ज्वलम् ॥ ६ ॥
</verse>
<verse>जानकीलक्ष्मणाभ्यां च वामदक्षिणशोभितम् ।
हनुमद्रविमुख्यादिकपिमुख्यैश्च सेवितम् ॥ ७ ॥
</verse>
<verse>दिव्यरत्नसमायुक्तसिंहासनगतं प्रभुम् ।
प्रत्यहं प्रातरुत्थाय ध्यात्वैवं राघवं हृदि ॥ ८॥
</verse>
<verse>एभिः षोडशभिर्नामपदैः स्तुत्वा नमेद्धरिम् ।
<delete><add>(ओं)</add></delete> नमो रामाय शुद्धाय बुद्धाय परमात्मने ॥ ९ ॥
</verse>
<verse>विशुद्धज्ञानदेहाय रघुनाथाय ते नमः ।
नमो रावणहन्त्रे ते नमो वालिविनाशिने ॥ १० ॥
</verse>
<verse>नमो वैकुण्ठनाथाय नमो विष्णुस्वरूपिणे ।
नमो यज्ञस्वरूपाय यज्ञभोक्त्रे नमो नमः ॥ ११
<fix>॥</fix></verse>
<verse>योगिध्येयाय योगाय परमानन्दरूपिणे ।
शङ्करप्रियमित्राय जानकीजानये नमः ॥ १२ ॥
</verse>
<verse>य एवं प्रातरुत्थाय भक्तिश्रद्धासमन्वितः ।
षोडशैतानि नामानि रामचन्द्रस्य नित्यशः ॥ १३ ॥
</verse>
<verse>पठेद्विद्वान् स्मरन् रामं स एव स्याद्रघूत्तमः ।
श्रीरामे भक्तिरचला भवत्येव हि सर्वदा ॥ १४
<fix>॥</fix></verse>
<verse>समये समनुप्राप्ते राघवः सीतया सह ।
हृदि संदृश्यते तस्य साक्षात् सौमित्रिणा सह ॥ १५ ॥
</verse>
<verse>नित्यं चापररात्रेषु रामस्यैतां स <delete>(त्य ) </delete>माहितः ।
मुच्यतेऽनुस्मृतिं जप्त्वा मृत्युदारिद्र्यपातकैः ॥ १६॥
</verse>
<trailer text="20_END">॥ इति ब्रह्मप्रोक्तं श्रीरामानुस्मृतिस्तोत्रं सम्पूर्णम् ॥
</trailer>
<footnote text="21_START">२१. ॥ अथ श्रीहरिहरस्तोत्ररत्नमाला ॥
</footnote>
<verse>गोविन्द माधव मुकुन्द हरे मुरारे
शम्भो शिवेश शशिशेखर शूलपाणे ।
दामोदराच्युत जनार्दन वासुदेव
त्याज्या भटा य इति सन्ततमामनन्ति ॥ १ ॥
</verse>
</page>
<ignore>५०२
<verse>ज्ञानमुद्रालसद्वक्षोबाहुं ज्ञानमयं हरिम् ।
वामजानूपरिन्यस्तवामहस्ताम्बुजं प्रभुम् ॥ ५ ॥
<verse>वीरासने समासीनं विद्युत्पुञ्ज
कोटिसूर्यप्रतीकाशं कोमला<add>[ङ्गसमु]</add>ज्ज्वलम् ॥ ६ ॥
<verse>जानकीलक्ष्मणाभ्यां च वामदक्षिणशोभितम् ।
हनुमद्रविमुख्यादिकपिमुख्यैश्च सेवितम् ॥ ७ ॥
<verse>दिव्यरत्नसमायुक्तसिंहासनगतं प्रभुम् ।
प्रत्यहं प्रातरुत्थाय ध्यात्वैवं राघवं हृदि ॥ ८॥
<verse>एभिः षोडशभिर्नामपदैः स्तुत्वा नमेद्धरिम् ।
<delete><add>(ओं)</add></delete> नमो रामाय शुद्धाय बुद्धाय परमात्मने ॥ ९ ॥
<verse>विशुद्धज्ञानदेहाय रघुनाथाय ते नमः ।
नमो रावणहन्त्रे ते नमो वालिविनाशिने ॥ १० ॥
<verse>नमो वैकुण्ठनाथाय नमो विष्णुस्वरूपिणे ।
नमो यज्ञस्वरूपाय यज्ञभोक्त्रे नमो नमः ॥ ११
<verse>योगिध्येयाय योगाय परमानन्दरूपिणे ।
शङ्करप्रियमित्राय जानकीजानये नमः ॥ १२ ॥
<verse>य एवं प्रातरुत्थाय भक्तिश्रद्धासमन्वितः ।
षोडशैतानि नामानि रामचन्द्रस्य नित्यशः ॥ १३ ॥
<verse>पठेद्विद्वान् स्मरन् रामं स एव स्याद्रघूत्तमः ।
श्रीरामे भक्तिरचला भवत्येव हि सर्वदा ॥ १४
<verse>समये समनुप्राप्ते राघवः सीतया सह ।
हृदि संदृश्यते तस्य साक्षात् सौमित्रिणा सह ॥ १५ ॥
<verse>नित्यं चापररात्रेषु रामस्यैतां स