Proofing

2026-04-03 16:53:31 by ambuda-bot

This page has not been fully proofread.

५०२
 
प्रकीर्णस्तोत्रेषु
 
ज्ञानमुद्रालसद्वक्षोबाहुं ज्ञानमयं हरिम् ।
वामजानूपरिन्यस्तवामहस्ताम्बुजं प्रभुम् ॥ ५ ॥
वीरासने समासीनं विद्युत्पुञ्ज निभाम्बरम् ।
कोटिसूर्यप्रतीकाशं कोमला[ङ्गसमु]ज्ज्वलम् ॥ ६ ॥
जानकीलक्ष्मणाभ्यां च वामदक्षिणशोभितम् ।
हनुमद्रविमुख्यादिकपिमुख्यैश्च सेवितम् ॥ ७ ॥
दिव्यरत्नसमायुक्तसिंहासनगतं प्रभुम् ।
 
प्रत्यहं प्रातरुत्थाय ध्यात्वैवं राघवं हृदि ॥ ८॥
एभिः षोडशभिर्नामपदैः स्तुत्वा नमेद्धरिम् ।
(ओं) नमो रामाय शुद्धाय बुद्धाय परमात्मने ॥ ९ ॥
विशुद्धज्ञानदेहाय रघुनाथाय ते नमः ।
 
नमो रावणहन्त्रे ते नमो वालिविनाशिने ॥ १० ॥
नमो वैकुण्ठनाथाय नमो विष्णुस्वरूपिणे ।
नमो यज्ञस्वरूपाय यज्ञभोक्त्रे नमो नमः ॥ ११
योगिध्येयाय योगाय परमानन्दरूपिणे ।
शङ्करप्रियमित्राय जानकीजानये नमः ॥ १२ ॥
य एवं प्रातरुत्थाय भक्तिश्रद्धासमन्वितः ।
षोडशैतानि नामानि रामचन्द्रस्य नित्यशः ॥ १३ ॥
 
पठेद्विद्वान् स्मरन् रामं स एव स्याद्रघूत्तमः ।
श्रीरामे भक्तिरचला भवत्येव हि सर्वदा ॥ १४
 
समये समनुप्राप्ते राघवः सीतया सह ।
 
हृदि संदृश्यते तस्य साक्षात् सौमित्रिणा सह ॥ १५ ॥
नित्यं चापररात्रेषु रामस्यैतां स (त्य ) माहितः ।
मुच्यतेऽनुस्मृतिं जप्त्वा मृत्युदारिद्र्यपातकैः ॥ १६॥
॥ इति ब्रह्मप्रोक्तं श्रीरामानुस्मृतिस्तोत्रं सम्पूर्णम् ॥
 
२१. ॥ अथ श्रीहरिहरस्तोत्ररत्नमाला ॥
गोविन्द माधव मुकुन्द हरे मुरारे
 
शम्भो शिवेश शशिशेखर शूलपाणे ।
 
दामोदराच्युत जनार्दन वासुदेव
 
त्याज्या भटा य इति सन्ततमामनन्ति ॥ १ ॥