Proofing

2026-04-03 16:53:30 by ambuda-bot

This page has not been fully proofread.

श्रीरामानुस्मृतिः
 
वेशन्तति व्रतजुषां हृदयं मुनीनां
वेगापगाविहृतिकाननचङ्क्रमाणाम् ।
मुस्ता गणन्ति किल यस्य सुरारिवर्गाः
 
कोलः स कोऽपि कुशलं कुरुतादजस्रम् ॥ ५ ॥
 
कल्याणमङ्कुरति यस्य कटाक्षलेशा-
 
द्यस्य प्रिया वसुमती सवनं यदङ्गम् ।
अस्मद्गुरोः कुलधनं चरणौ यदीयौ
 
भूयः शुभं दिशतु भूमिवराह एषः ॥ ६ ॥
कल्पान्तसन्ततघनाघननिर्विघात-
निर्घातवातरवनिष्ठुरतारधीरम् ।
मायाकिटेर्बधिरितद्रुहिणश्रवस्कं
 
घोणा पुटीघुरघुरारसितं पुनातु ॥ ७ ॥
झटिति विलुठदूर्मी चाटुवाचाटसिन्धु-
स्फुटपटहविदत्र स्फेाटदीप्तोमुद्यम् ।
खरखुरपुटघाताधूतखाटारिवाट :
 
कपटकिटिर घौ घाटोपमुच्चाटयेन्नः ॥ ८ ॥
 
यत्कारिकादर्पणाख्यकृतिनावा भवाम्बुधिम् ।
सन्तस्तरन्ति वरदगुरवे श्रीमते नमः ॥ ९ ॥
॥ इति श्रीवराहाष्टकं सम्पूर्णम् ॥
 
ब्रह्मोवाच-
 
२०. ॥ अथ श्रीरामानुस्मृतिः ॥
 
वन्दे रामं जगद्वन्द्यं सुन्दरास्यं शुचिस्मितम् ।
कन्दर्पकोटिलावण्यं कामितार्थप्रदायकम् ॥ १ ॥
 
भास्वत्किरीटकटककटिसूत्रोपशोभितम् ।
विशाललोचनं भ्राजत्तरुणारुणकुण्डलम् ॥ २ ॥
श्रीवत्स कौस्तुभलसद्वक्षसं वनमालिनम् ।
मुक्ताहारसुशोभाव्यं मुद्रिकारत्नभासुरम् ॥ ३ ॥
 
सर्वाङ्गसुन्दरं हृद्यं द्विभुजं रघुनन्दनम् ।
नीलजीमूतसङ्काशं नीलालकवृताननम् ॥ ४ ॥
 
५०१