Stotrarnava /546
This page has been fully proofread once and needs a second look.
<page>
<ignore>५००
प्रकीर्णस्तोत्रेषु
</ignore>
<verse>भजेयमहिशायिनं रजतशैलकालाम्बुद-
प्रभानिभमहर्निशं प्रणतदिव्यसौख्यप्रदम् ।
सुधामयपयोधिजापदसरोजलाक्षामय-
प्रभारुणितवक्षसं सुलभमेव रङ्गेश्वरम् ॥ २३ ॥
</verse>
<verse>न क्रियन्ते प्रसिद्धं मनसिजकदनैर्भाष्यकारस्य भक्ताः
भक्तोऽपि स्वामिनोऽहं मदनपरवशः पापकर्मास्मि मूर्खः ।
तस्मान्मे दिव्यबन्धो सकलगुणनिधे लोकनाथ क्षमाच्ब्धे
त्यक्तुं शक्यस्त्वयाहं न खलु मम निधे रक्ष मां रङ्गनाथ ॥ २४ ॥
</verse>
<verse>कल्याणकल्पकतरो करुणामृतान्धे
श्रीरङ्गराज जगदेकशरण्यमूर्ते ।
भक्तप्रवत्सल मनोहरदिव्यमूर्ते
पाहि प्रसीद मम वृत्तमचिन्तयित्वा ॥ २५ ॥
</verse>
<trailer text="18_END">॥ इति श्रीरङ्गनाथस्तोत्रं सम्पूर्णम् ॥
</trailer>
<title text="19_START">१९. ॥ अथ श्रीवराहाष्टकम् ॥
</title>
<verse>कमलायतनेत्राय कमलायतनोरसे ।
वराहवपुषे दैत्यवराहवपुषे नमः ॥ १ ॥
</verse>
<verse>वामांसभूषायितविश्वधात्री-
वामस्तनन्यस्तकरारविन्दः ।
जिघ्रन् मुखेनापि कपोलमेनां
जीवातुरस्माकगुरोः स जीयात् ॥ २ ॥
</verse>
<verse>वेदिस्त नूराहवनीयमास्यं
व
बर्हीं षि लोमानि जुहूश्च नासा ।
शम्या च दंष्ट्राजनि यस्य यूपो
वालो मखात्मा स पुनातु पोत्री ॥ ३ ॥
</verse>
<verse>पापेन दैन्येन भवाम्बुराशौ
निपातितं मां निरवग्रहोमर्मौ ।
धूतारिरुद्धृत्य धरामिवोच्चैः
कुर्यान्मुदं मे कुहनावराहः ॥ ४ ॥
</verse>
</page>
<ignore>५००
<verse>भजेयमहिशायिनं रजतशैलकालाम्बुद-
प्रभानिभमहर्निशं प्रणतदिव्यसौख्यप्रदम् ।
सुधामयपयोधिजापदसरोजलाक्षामय-
प्रभारुणितवक्षसं सुलभमेव रङ्गेश्वरम् ॥ २३ ॥
<verse>न क्रियन्ते प्रसिद्धं मनसिजकदनैर्भाष्यकारस्य भक्ताः
भक्तोऽपि स्वामिनोऽहं मदनपरवशः पापकर्मास्मि मूर्खः ।
तस्मान्मे दिव्यबन्धो सकलगुणनिधे लोकनाथ क्षमा
त्यक्तुं शक्यस्त्वयाहं न खलु मम निधे रक्ष मां रङ्गनाथ ॥ २४ ॥
<verse>कल्याणकल्पकतरो करुणामृतान्धे
श्रीरङ्गराज जगदेकशरण्यमूर्ते ।
भक्तप्रवत्सल मनोहरदिव्यमूर्ते
पाहि प्रसीद मम वृत्तमचिन्तयित्वा ॥ २५ ॥
<trailer text="18_END">॥ इति श्रीरङ्गनाथस्तोत्रं सम्पूर्णम् ॥
<title text="19_START">१९. ॥ अथ श्रीवराहाष्टकम् ॥
<verse>कमलायतनेत्राय कमलायतनोरसे ।
वराहवपुषे दैत्यवराहवपुषे नमः ॥ १ ॥
<verse>वामांसभूषायितविश्वधात्री-
वामस्तनन्यस्तकरारविन्दः ।
जिघ्रन् मुखेनापि कपोलमेनां
जीवातुरस्माकगुरोः स जीयात् ॥ २ ॥
<verse>वेदिस्त
व
बर्हीं
शम्या च दंष्ट्राजनि यस्य यूपो
वालो मखात्मा स पुनातु पोत्री ॥ ३ ॥
<verse>पापेन दैन्येन भवाम्बुराशौ
निपातितं मां निरवग्रहो
धूतारिरुद्धृत्य धरामिवोच्चैः
कुर्यान्मुदं मे कुहनावराहः ॥ ४ ॥
</page>