Stotrarnava /546
This page has not been fully proofread.
५००
प्रकीर्णस्तोत्रेषु
भजेयमहिशायिनं रजतशैलकालाम्बुद-
प्रभानिभमहर्निशं प्रणतदिव्यसौख्यप्रदम् ।
सुधामयपयोधिजापदसरोजलाक्षामय-
प्रभारुणितवक्षसं सुलभमेव रङ्गेश्वरम् ॥ २३ ॥
न क्रियन्ते प्रसिद्धं मनसिजकदनैर्भाष्यकारस्य भक्ताः
भक्तोऽपि स्वामिनोऽहं मदनपरवशः पापकर्मास्मि मूर्खः ।
तस्मान्मे दिव्यबन्धो सकलगुणनिधे लोकनाथ क्षमाच्धे
त्यक्तुं शक्यस्त्वयाहं न खलु मम निधे रक्ष मां रङ्गनाथ ॥ २४ ॥
कल्याणकल्पकतरो करुणामृतान्धे
श्रीरङ्गराज जगदेकशरण्यमूर्ते ।
भक्तप्रवत्सल मनोहरदिव्यमूर्ते
पाहि प्रसीद मम वृत्तमचिन्तयित्वा ॥ २५ ॥
॥ इति श्रीरङ्गनाथस्तोत्रं सम्पूर्णम् ॥
१९. ॥ अथ श्रीवराहाष्टकम् ॥
कमलायतनेत्राय कमलायतनोरसे ।
वराहवपुषे दैत्यवराहवपुषे नमः ॥ १ ॥
वामांसभूषायितविश्वधात्री-
वामस्तनन्यस्तकरारविन्दः ।
जिघ्रन् मुखेनापि कपोलमेनां
जीवातुरस्माकगुरोः स जीयात् ॥ २ ॥
वेदिस्त नूराहवनीयमास्यं
वहीं षि लोमानि जुहूश्च नासा ।
शम्या च दंष्ट्राजनि यस्य यूपो
वालो मखात्मा स पुनातु पोत्री ॥ ३ ॥
पापेन दैन्येन भवाम्बुराशौ
निपातितं मां निरवग्रहोम ।
धूतारिरुद्धृत्य धरामिवोच्चैः
कुर्यान्मुदं मे कुहनावराहः ॥ ४ ॥
प्रकीर्णस्तोत्रेषु
भजेयमहिशायिनं रजतशैलकालाम्बुद-
प्रभानिभमहर्निशं प्रणतदिव्यसौख्यप्रदम् ।
सुधामयपयोधिजापदसरोजलाक्षामय-
प्रभारुणितवक्षसं सुलभमेव रङ्गेश्वरम् ॥ २३ ॥
न क्रियन्ते प्रसिद्धं मनसिजकदनैर्भाष्यकारस्य भक्ताः
भक्तोऽपि स्वामिनोऽहं मदनपरवशः पापकर्मास्मि मूर्खः ।
तस्मान्मे दिव्यबन्धो सकलगुणनिधे लोकनाथ क्षमाच्धे
त्यक्तुं शक्यस्त्वयाहं न खलु मम निधे रक्ष मां रङ्गनाथ ॥ २४ ॥
कल्याणकल्पकतरो करुणामृतान्धे
श्रीरङ्गराज जगदेकशरण्यमूर्ते ।
भक्तप्रवत्सल मनोहरदिव्यमूर्ते
पाहि प्रसीद मम वृत्तमचिन्तयित्वा ॥ २५ ॥
॥ इति श्रीरङ्गनाथस्तोत्रं सम्पूर्णम् ॥
१९. ॥ अथ श्रीवराहाष्टकम् ॥
कमलायतनेत्राय कमलायतनोरसे ।
वराहवपुषे दैत्यवराहवपुषे नमः ॥ १ ॥
वामांसभूषायितविश्वधात्री-
वामस्तनन्यस्तकरारविन्दः ।
जिघ्रन् मुखेनापि कपोलमेनां
जीवातुरस्माकगुरोः स जीयात् ॥ २ ॥
वेदिस्त नूराहवनीयमास्यं
वहीं षि लोमानि जुहूश्च नासा ।
शम्या च दंष्ट्राजनि यस्य यूपो
वालो मखात्मा स पुनातु पोत्री ॥ ३ ॥
पापेन दैन्येन भवाम्बुराशौ
निपातितं मां निरवग्रहोम ।
धूतारिरुद्धृत्य धरामिवोच्चैः
कुर्यान्मुदं मे कुहनावराहः ॥ ४ ॥