Stotrarnava /545
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीरङ्गनाथस्तोत्रम्
४९९</ignore>
<verse>उन्मीलत्पद्मगर्भ द्युतितलमहसा न्यक्कृताः पद्मरागाः
बाह्यैस्तेजः प्ररोहैः शतमखमणयो न्यक्कृता नीलवर्णाः ।
उद्यद्दिव्यप्रकाशैर्नखमणिमहसां न्यक्कृताश्चन्द्रभासो
भक्तानामिष्टदातुश्चरणकमलयो रङ्गनाथस्य विष्णोः ॥ १५ ॥
</verse>
<verse>तत्तादृशौ विधिशिवादिकिरीटकोटि-
प्रत्युप्तदिव्यनवरत्न महः प्ररोहैः ।
नीराजितौ मणिमयोज्ज्वलनू पुराढ्यौ
श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ १६ ॥
</verse>
<verse>आनूपुरार्पितमनोहर दिव्यपुष्प-
सौरभ्यसौरभकरौ मणिनूपुराढ्यौ ।
पद्मोज्ज्वलौ निखिलभक्तजनानुभाव्यौ
श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ १७ ॥
</verse>
<verse>अम्भोजरस्फारपादो नयनसुभगताकल्पकस्फारजङ्घः
सौन्दर्यस्फारजानुः करिकरकदलश्रीलसद्दीप्यदूरुः ।
जाज्वल्यद्दिव्यशाटीविलसितकटिक:कः कौस्तुभस्फारवक्षाः
चक्राब्जस्फारबाहुर्दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ १८ ॥
</verse>
<verse>कम्बुग्रीवप्रभातः किसलयविलसद्विद्रुमस्मेर भास्व-
ही
द्दीप्रोष्ठः कल्पवल्लीमधुरशुभनसः पद्मपत्रायताक्षः ।
सुभ्रूरेखः सुफालो मणिमयमकुटस्त्वञ्जनश्यामकेशः
श्रीरङ्गे शेषशायी दिशतु मम सुखं लोकनाथो मुकुन्दः <fix>॥ </fix>१९ ॥
</verse>
<verse>मणिप्रवरभूषणं मकुटदीप्रनीलालकं
विचित्रमणिनू पुरप्रविलसत्पदाम्भोजकम् ।
सरोभवनिभाननं सरसिजेक्षण प्रोज्ज्वलं
भजे नयन सौख्यंयदं प्रणमतां तु रङ्गेश्वरम् ॥ २० ॥
</verse>
<verse>सुशीलमखिला मरप्रवरभोग्यपादाम्बुजं
शशाङ्कसदृशाननं कनकदी प्रपीताम्बरम् ।
दशानननिघातिनं मधुरबिम्बदिव्याधरं
सुशोभितकराम्बुजं खलु भजामि रङ्गेश्वरम् ॥ २१ ॥
</verse>
<verse>महेन्द्रमणिभास्वरं मणिवरादिभूषोज्ज्वलं
जपाकुसुमविद्रुमज्वलितबिम्बदिव्याधरम् ।
कृपामृतपयोनिधिं सुमुखमन्दहासोज्ज्वलं
लसद्विपुलवक्षसं किल भजेम रङ्गेश्वरम् ॥ २२ ॥
४९९
</verse>
</page>
<ignore>श्रीरङ्गनाथस्तोत्रम्
<verse>उन्मीलत्पद्मगर्भ
बाह्यैस्तेजः
उद्यद्दिव्यप्रकाशैर्नखमणिमहसां न्यक्कृताश्चन्द्रभासो
भक्तानामिष्टदातुश्चरणकमलयो रङ्गनाथस्य विष्णोः ॥ १५ ॥
<verse>तत्तादृशौ विधिशिवादिकिरीटकोटि-
प्रत्युप्तदिव्यनवरत्न
नीराजितौ मणिमयोज्ज्वलनू
श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ १६ ॥
<verse>आनूपुरार्पितमनोहर
सौरभ्यसौरभकरौ मणिनूपुराढ्यौ ।
पद्मोज्ज्वलौ निखिलभक्तजनानुभाव्यौ
श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ १७ ॥
<verse>अम्भोज
सौन्दर्यस्फारजानुः करिकरकदलश्रीलसद्दीप्यदूरुः ।
जाज्वल्यद्दिव्यशाटीविलसितकटि
चक्राब्जस्फारबाहुर्दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ १८ ॥
<verse>कम्बुग्रीवप्रभातः किसलयविलसद्विद्रुमस्मेर
ही
द्दीप्रोष्ठः कल्पवल्लीमधुरशुभनसः पद्मपत्रायताक्षः ।
सुभ्रूरेखः सुफालो मणिमयमकुटस्त्वञ्जनश्यामकेशः
श्रीरङ्गे शेषशायी दिशतु मम सुखं लोकनाथो मुकुन्दः <fix>॥ </fix>१९ ॥
<verse>मणिप्रवरभूषणं मकुटदीप्रनीलालकं
विचित्रमणिनू
सरोभवनिभाननं सरसिजेक्षण
भजे नयन
<verse>सुशीलमखिला
शशाङ्कसदृशाननं कनकदी