Proofing

2026-04-03 16:53:30 by ambuda-bot

This page has not been fully proofread.

श्रीरङ्गनाथस्तोत्रम्
 
उन्मीलत्पद्मगर्भ द्युतितलमहसा न्यक्कृताः पद्मरागाः
बाह्यैस्तेजः प्ररोहैः शतमखमणयो न्यक्कृता नीलवर्णाः ।
उद्यद्दिव्यप्रकाशैर्नखमणिमहसां न्यक्कृताश्चन्द्रभासो
भक्तानामिष्टदातुश्चरणकमलयो रङ्गनाथस्य विष्णोः ॥ १५ ॥
 
तत्तादृशौ विधिशिवादिकिरीटकोटि-
 
प्रत्युप्तदिव्यनवरत्न महः प्ररोहैः ।
 
नीराजितौ मणिमयोज्ज्वलनू पुराढ्यौ
 
श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ १६ ॥
 
आनूपुरार्पितमनोहर दिव्यपुष्प-
 
सौरभ्यसौरभकरौ मणिनूपुराढ्यौ ।
पद्मोज्ज्वलौ निखिलभक्तजनानुभाव्यौ
 
श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ १७ ॥
 
अम्भोजरफारपादो नयनसुभगताकल्पकस्फारजङ्घः
सौन्दर्यस्फारजानुः करिकरकदलश्रीलसद्दीप्यदूरुः ।
जाज्वल्यद्दिव्यशाटीविलसितकटिक: कौस्तुभस्फारवक्षाः
चक्राजस्फारबाहुर्दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ १८ ॥
कम्बुग्रीवप्रभातः किसलयविलसद्विद्रुमस्मेर भास्व-
 
हीप्रोष्ठः कल्पवल्लीमधुरशुभनसः पद्मपत्रायताक्षः ।
सुरेखः सुफालो मणिमयमकुटस्त्वञ्जनश्यामकेशः
 
श्रीरङ्गे शेषशायी दिशतु मम सुखं लोकनाथो मुकुन्दः १९ ॥
 
मणिप्रवरभूषणं मकुटदीप्रनीलालकं
 
विचित्रमणिनू पुरप्रविलसत्पदाम्भोजकम् ।
सरोभवनिभाननं सरसिजेक्षण प्रोज्ज्वलं
 
भजे नयन सौख्यं प्रणमतां तु रङ्गेश्वरम् ॥ २० ॥
 
सुशीलमखिला मरप्रवरभोग्यपादाम्बुजं
 
शशाङ्कसदृशाननं कनकदी प्रपीताम्बरम् ।
 
दशानननिघातिनं मधुरबिम्बदिव्याधरं
 
सुशोभितकराम्बुजं खलु भजामि रङ्गेश्वरम् ॥ २१ ॥
 
महेन्द्रमणिभास्वरं मणिवरादिभूषोज्ज्वलं
 
जपाकुसुमविद्रुमज्वलितबिम्बदिव्याधरम् ।
 
कृपामृतपयोनिधिं सुमुखमन्दहासोज्ज्वलं
 
लसद्विपुलवक्षसं किल भजेम रङ्गेश्वरम् ॥ २२ ॥
 
४९९