Proofing

2026-05-10 07:04:39 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
४९८
 
प्रकीर्णस्तोत्रेषु
 
</ignore>
<verse>
विलसतु मम चित्ते रङ्गनाथो दयालु-

र्
वितरतु मम सौख्यं कल्पकः स्वाश्रितानाम् ।

स जयतु विबुधानां राजराजो मुकुन्दो

विविधकनकभूषाप्रोज्ज्वलद्दिव्यगात्रः ॥ ७ ॥
</verse>
<verse>
वैकुण्ठतुल्यविमलाखिलदिव्यदेश-

प्राधान्यलक्षितविलक्षणरङ्गपुर्याम् ।

कल्याणकल्पकतरुं कमलायताक्षं

शेषाङ्कशायिनमहं शरणं प्रपद्ये ॥ ८ ॥
</verse>
<verse>
रेखामयाब्जकलशध्वजशङ्खचक्र-

वज्राद्यलंकृततलौ जितपद्मरागौ ।

कान्ताववाङ्मनसगोचरसौकुमार्यौ
 

श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ ९ ॥
 
</verse>
<verse>
कालाम्बुदश्यामलकोमलाङ्गं

श्रीवत्सपीताम्बरकौस्तुभाद्यैः ।

श्रीभूषणैर्भूषितमम्बुजाक्षं
 

श्रीरङ्गराजं शरणं प्रपद्ये ॥ १० ॥
 
</verse>
<verse>
श्रीरङ्गनाथ मम नाथ तवाङ्घ्रिपद्म-

कैङ्कर्यनिष्ठपरिचारकभृत्यभृत्यम् ।

मां रक्ष दिव्यकृपया करुणामृतान्ब्धे
 

शीलादिमङ्गलगुणाकर भक्तबन्धो ॥ ११ ॥
 
</verse>
<verse>
मणिभूषणभूषित नीलतनो
 

शरणागतवत्सल रङ्गनिधे ।
 

कमलाधव मङ्गलवारिनिधे
 

परया कृपया परिपालय माम् ॥ १२ ॥
 
</verse>
<verse>
निखिलामलदैवतमौलिमणे
 

भुवनाधिप मङ्गलसारनिधे ।
 

शरणागतकल्पक रङ्गपते
 

परया कृपया परिपालय माम् ॥ १३ ॥
 
</verse>
<verse>
अन्येषां किल दुर्लभश्च सततं स्वस्मिन्नभक्तात्मनां
 

भक्तानां सुलभः प्रसन्नवदनः कल्याणदो वत्सलः ।
 

स्वस्ति श्रीस्तन कुङ्कुमादरुणितश्रीनीलगात्रः सदा
 

दद्यान्मे भगवान् फणीन्द्रशयनः श्रीरङ्गराजो विभुः ॥ १४ ॥
 
</verse>
</page>