Proofing

2026-04-03 16:53:30 by ambuda-bot

This page has not been fully proofread.

श्रीरङ्गनाथस्तोत्रम्
 
रङ्गाधिपं रविकुलीननृपैः सुपूज्यं
भोगीन्द्र भोगशयनीयतले शयानम् ।
ज्ञानप्रदं तनुभृतां वरदं वरेण्यं
 
श्रीनाथमादरमहं सततं भजामि ॥ १४ ॥
 
॥ इति सुदर्शन वरदनारायणदासकृता श्रीगोविन्दराजस्तुतिः
सम्पूर्णा ॥
 
१८. ॥ अथ श्रीरङ्गनाथस्तोत्रम् ॥
 
श्रीरङ्गे शेषशायी विलसति भगवान् दिव्यवैकुण्ठनाथः
कावेरी दिव्यगन्धा विलसति विरजा दिव्यतीर्थप्रशस्ता ।
श्रीरङ्गं दिव्यरङ्गं विलसति नगरं दिव्यंवैकुण्ठमेव
 
श्रीमन्तः सूरिसङ्घा दिवि च विलसिता रङ्गदेशस्थभक्ताः ॥ १ ॥
प्रत्युप्तैः पद्मरागस्फटिकमरकतैर्दिव्यमाणिक्यसङ्घः
 
प्राकारै पुराद्यैर्विलसति विमले दिव्यवैकुण्ठतुल्ये ।
श्रीरङ्गे शेषशायी शतमख मणिभिस्तुल्यकल्याणगात्रो
 
भक्तानां कल्पवृक्षो दिशतु मम सुखं रङ्गनाथो दयालुः ॥ २ ॥
अम्भोजाक्षः सुशीलः शुभगुणनिलयश्चन्द्रकान्ताननाब्जः
वक्षःस्थयां विराजन्मणिवर कमलावत्स जाज्वल्यमानः ।
माणिक्यच्छन्नमौलिर्मणिमयवलयो भक्तकल्याणदाता
 
वैकुण्ठः शेषशायी दिशतु मम सुखं रङ्गनाथो दयालुः ॥ ३ ॥
सर्वज्ञः सर्वशक्तः सकलगुणनिधिः सत्यकामः सुरेशः
श्रीवत्सः श्रीनिवासः श्रितजनवरदः सर्वसौहार्दसिन्धुः ।
श्रीरङ्गे दिव्यदेशे सकलजननिधौ शेषतल्पे शयानो
मेघश्यामः कृपालुर्दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ ४ ॥
श्रीरङ्गश्रीनगर्यां ज्वलितमणिफणे नागराजे शयानः
ब्रह्माद्यैः सूरिसङ्घैः स्तुतपदकमलः सर्वलोकप्रसिद्धः ।
मुग्धस्मेरः श्रुतीनां शिरसि विलसितः सिन्धुजावत्सवक्षाः
कारुण्याब्धिर्वदान्यो दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ ५ ॥
 
प्रत्यक्षं परमं पदं दिवि भुवि श्रीरङ्गमत्यद्भुतं
 
तत्र श्रीभगवान् फणीन्द्रशयनः श्रीरङ्गराजो विभुः ।
लक्ष्मीदिव्यनिवासकौस्तुभमणिः श्रीवत्सवक्षःस्थलो
 
जीयाद् भूतदयालुरम्बुजमुखः श्रीवैष्णवानां निधिः ॥ ६ ॥
 
32
 
४९७