Stotrarnava /542
This page has not been fully proofread.
१७.
॥ अथ श्रीगोविन्दराजस्तुतिः ॥
सेवे गोविन्दराजं सुरनरमुनिभिः सेव्यमानाङ्घ्रिपद्मं
लक्ष्मीभूभ्यां लसन्तं मणिमयमकुटोद्भासमानाननाब्जम् ।
विभ्राणं शङ्खचक्रे शशिरविलसिते हस्तपद्मद्वयाभ्यां
प्रत्नं[भोगीन्द्रतल्पं]वरगुण जलधिं मेघसच्छायदेहम् ॥ १ ॥
मुग्धनीलाळकास्येन्दुमुत्फुल्लाम्भोजलोचनम् ।
कुन्दकुड्मलसञ्छा[च्छा ] त्रदशनं [ पल्लवाधरम् ] ॥२॥
सुभ्रूलतं चम्प[काली ]विडम्ब्युन्नतनासिकम् ।
चारुमन्दस्मितं हेमकर्णभूषणम जुळम् ॥ ३ ॥
चलत्कुण्डलसंशोभिकपोलफलकद्वयम् ।
ग्रैवेयकोल्लसत्कम्बुकण्ठं कौस्तुभभूषितम् ॥ ४ ॥
सुगन्धतुलसीमाला मुक्ताहारकक्षसम् ।
शङ्खचक्रधरं रुक्मवलयाङ्गदबाहुकम् ॥ ५ ॥
कटीतटीप्रविलसद्द्भुतहेमाम्बरं प्रभुम् ।
गजशुद्धास्वर्मिसक्थिं[गजशुण्डास्पर्धिसक्थं] मुक्कुरामुग्धजानुकम् ॥६॥
कामतूणीरसदृशजङ्घाद्ण्डोपशोभितम्
क्वणत्प्रत्युप्तमाणिक्यमञ्जीरपदपङ्कजम् ॥ ७ ॥
कन्दर्पकोटिसंकाशं नीलाम्बुधरविग्रहम् ।
आनन्दकन्दलं गोपरमणीनयनोत्सवम् ॥ ८॥
पुण्यराशिं वेदवेद्यं दयाजन्मनिकेतनम् ।
लोकदुःखतमोवृन्दचण्डभानुं नरोत्तमम् ॥ ९ ॥
नित्यं निरञ्जनं भक्तजनाम्बुधिकलानिधिम् ।
दशरूपधरं देवं सृष्टिस्थित्यन्तकारिणम् ॥ १० ॥
निबिडोत्फुल्लकुसुमफलकोरकमण्डितैः ।
शङ्खस्वनत्परभृतप्रमुख। ण्डजशेभितैः ॥ ११ ॥
चम्पकाशोकपुन्नागचिञ्चाम्रवकुळुद्रमैः ।
रम्ये विशाले स्वच्छाम्बुपुण्डरीकसरस्तटे ॥ १२ ॥
प्राकारगोपुरोदग्रमण्डपान्वितसन्निभौ[धौ ] ।
शान्तं गोविन्दराजं तमहर्निशमहं भजे ॥ १३ ॥