Proofing

2026-04-03 16:53:29 by ambuda-bot

This page has not been fully proofread.

श्रीवेङ्कटेशस्तोत्रम्
 
श्रीमद्वेङ्कट भूधरे मणिगणैर्नानाविधैर्धातुभि-
 
देदीप्रे भगवान् ममास्तु गुणवान् क्षेमंकरः सर्वदा ॥ २३ ॥
 
भक्तानां दोषभोग्यः प्रवरगुणनिधिर्मङ्गलानां निवासः
विख्यातः सर्वधाता सरसिजनयनो वेदवेदान्तवेद्यः ।
शेषाद्रौ शेषतल्पे जलधितनयया सार्धमिन्दीवराक्ष्या
 
कीडन् देवाधिराजो मम तु वितरतान्मङ्गलं श्रीनिवासः ॥ २४ ॥
 
विधिशिवविबुधेन्द्रप्राणिरक्षैकदीक्षो
विविधकलिनिहन्ता वत्सलः स्वाश्रितेषु ।
श्रुतहृदयनिवासः शीलवान् पङ्कजाक्षो
 
विलसतु मम चित्ते वेङ्कटेशो मुकुन्दः ॥ २५ ॥
 
मरतकमणिरत्नस्फाटिकच्छन्नदिव्य-
 
प्रवरकनकभूषाभूषितः संश्रितार्थम् ।
नयनसुभगदिव्यश्यामकल्याणगात्रो
 
विलसतु मम चित्ते वेङ्कटेशो मुकुन्दः ॥ २६ ॥
वरद निखिलबन्धो क्षान्तिसौशील्यसिन्धो
कमलनयन विष्णो शङ्खचक्रासिपाणे ।
दिवि भुवि मम बन्धो श्रीपते वेङ्कटेश
 
श्रितजन शुभकल्प श्रीनिधे त्राहि दासम् ॥ २७ ॥
 
दिवि भुवि मम सौख्यं संप्रयच्छ प्रयच्छ
श्रुतिशिरसि विदीप्त श्रीनिधे वेङ्कटेश ।
चलमतिमविनीतं मां च कन्दर्पवश्यं
 
तव किल दयनीयं पाहि पाहि प्रसीद ॥ २८ ॥
 
कलौ लोकनाथ प्रशस्त प्रशस्त
 
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ।
 
हरे दीनबन्धों प्रसीद प्रसीद
 
सदा वेङ्कटेशं स्मरामि स्मरामि ॥ २९ ।
 
स्वामिपुष्करिणीतीरे श्रीमद्वेङ्कटभूधरे ।
 
वसते रमया सार्धं वेङ्कटेशाय मङ्गलम् ॥ ३० ॥
 
॥ इति श्रीवेङ्कटेशस्तोत्रं सम्पूर्णम् ॥
 
४९५