Stotrarnava /540
This page has not been fully proofread.
४९४
प्रकीर्णस्तोत्रेषु
दातारं किल सम्पदां स्वचरणद्वन्द्वाश्रितानां सतां
दैत्यानां तु निघातिनं त्रिजगतां नाथं महावत्सलम् ।
सिंहस्कन्धमनेकरत्नरचित श्रीहारवक्षःस्थलं
श्रीमत्पुण्ड्रललल्ललाटफलकं श्रीवेङ्कटेशं भजे ॥ १६ ॥
लक्ष्मीनिवास निखिलाश्रित लोकबन्धो
वैकुण्ठनाथ निरवद्यगुणैकसिन्धो ।
श्रीवेङ्कटेश भुवि विश्रुतदिव्यकीर्ते
पाहि प्रपन्नमगतिं शरणागतं माम् ॥ १७ ॥
वरगुणमणिसिन्धुर्वत्सलः श्रीनिवासः
कलशजलधिकन्याप्राणनाथो दयालुः ।
मणिवरमणिभूषा 'वत्सजाज्वल्यमानो
वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ १८ ॥
कनकमयकिरीटो दिव्यलावण्यसिन्धुः
प्रणतवरदबन्धुः पद्मपत्रायताक्षः ।
सुलभचरणयुग्मः स्वाश्रितानां कृपालुः
वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ १९ ॥
मरतकगिरिमूर्तिर्मङ्गलानां निवासः
स्फटिकम कुटमूर्धा पीतकौशेयवासः ।
कनकवलयभूषा प्रोज्ज्वलद्दिव्यबाहुः
वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ २० ॥
सरसिजमुखपाणिः सर्वलोकैकनाथः
विकचकमलनेत्रः श्यामलः कोमलाङ्गः ।
जलजचरणयुग्मः श्रीनिवासो दयालुः
वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ २१ ॥
विधिविबुधनियन्ता विश्वभक्तार्तिहन्ता
विनतविविधजातिक्षेमकल्यणमन्ता ।
विमलमधुरमन्दस्मेरदिव्याननाब्जो
वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ २२ ॥
अत्यर्कानलदीप्तमुत्तमपदं वैकुण्ठमत्यद्भुतं
त्यक्त्वानुग्रहकाम्यया प्रणमतां लक्ष्म्या सह क्रीडितः ।
1.
मणिवरमणिः = कौस्तुभमणि
2. वत्सः = श्रीवत्सः