Proofing

2026-04-12 18:37:45 by akprasad

This page has been fully proofread once and needs a second look.

. <page>
<ignore>

 
श्रीगणेशस्तोत्रेषु
 
</ignore>
<verse>
निस्सारवैषयिक सौख्यदुराशयैव

नीतान्यहान्यहह किं कथये दयस्व ॥ ७ ॥
'
</verse>
<verse><ref>1</ref>
वस्त्राज्यदुग्धमधुभिः सितशर्कराढ्यैः

पुण्डेड्रेक्षखण्डकदलीफलनारिकेलैः ।
'

<ref>2</ref>
लाजैश्च मोदकयुतैः परिपूजितुं त्वां
 

धन्याः क्षमाः परमहं शरणं प्रपद्ये ॥ ८ ॥
</verse>
<verse>
समीरैः प्रोच्चण्डैः श्रवणयुगली चालनभवै-

र्नतानां प्रत्यूहच्छलजलदराशिं विदलयन् ।

कटाभोगोदञ्चन्मदसुरभिलाशेभुवनः
 

शिवाचन्द्रोत्तंसप्रणयपरिणामोऽवतु गजः ॥ ९ ॥
</verse>
<trailer text="5_END">
॥ इति श्रीविनायकस्तोत्रं सम्पूर्णम् ॥
 
</trailer>
<title text="6_START">
६. ॥ श्री महागणपतिकवचम् ॥
 
</title>
<verse>
उमासुतं देववरप्रसादं
 

हरस्य पुत्रं गणवृबृन्दसेव्यम् ।
 

सुरासुराणां परमं पवित्रं
 

विनायकं <ref>4</ref>शूरमहं प्रपद्ये ॥ १ ॥
 
</verse>
<p>
श्री गणाधिपतये नमः । श्रीमहागणपतये नमः ।
 
</p>
<footnote>
1. मस्त्वा
 
</footnote>
<footnote>
2.
 
लाभैश्च
 
</footnote>
<footnote>
3. तं
 
</footnote>
<footnote>
4. शरण
 
</footnote>
<ignore>
अस्य कवचस्य आरम्भे एते श्लोकाः दृश्यन्ते—
 
ओं
 
</ignore>
<ignore>
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
 

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ श्रीगुरुभ्यो नमः ॥ १ ॥
 
</ignore>
<ignore>
श्रियं गणपतिं दुर्गा वटुकं शिवमच्युतम् ।
 

ब्रह्माणं गिरिजां लक्ष्माँमीं वाणीं वन्दे विभूतये ॥ २ ॥
 
</ignore>
<ignore>
वन्दे गुरुपदद्वन्द्वमवाङ्मनसगोचरम् ।
 

रक्तशुक्लप्रभा मिश्रमतर्क्यं त्रैपुरं महः ॥ ३ ॥
 
</ignore>
<ignore>
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
 

चक्षुरुन्मीलनं येन तस्मै श्रीगुरवे नमः ॥ ४ ॥
 
</ignore>
<ignore>
अस्मत्-श्रीगुरुपादुकाभ्यो नमः । श्रीशिवाय नमः ।
</ignore>
<ignore>ओं
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
 

यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ ५॥
 
</ignore>
</page>