Proofing

2026-04-02 21:26:23 by ambuda-bot

This page has not been fully proofread.

. ८
 
श्रीगणेशस्तोत्रेषु
 
निस्सारवैषयिक सौख्यदुराशयैव
नीतान्यहान्यहह किं कथये दयस्व ॥ ७ ॥
'वस्त्राज्यदुग्धमधुभिः सितशर्कराढ्यैः
पुण्डेक्षखण्डकदलीफलनारिकेलैः ।
'लाजैश्च मोदकयुतैः परिपूजितुं त्वां
 
धन्याः क्षमाः परमहं शरणं प्रपद्ये ॥ ८ ॥
समीरैः प्रोच्चण्डैः श्रवणयुगली चालनभवै-
र्नतानां प्रत्यूहच्छलजलदराशिं विदलयन् ।
कटाभोगोदञ्चन्मदसुरभिलाशेपभुवनः
 
शिवाचन्द्रोत्तंसप्रणयपरिणामोऽवतु गजः ॥ ९ ॥
॥ इति श्रीविनायकस्तोत्रं सम्पूर्णम् ॥
 
६. ॥ श्री महागणपतिकवचम् ॥
 
उमासुतं देववरप्रसादं
 
हरस्य पुत्रं गणवृन्दसेव्यम् ।
 
सुरासुराणां परमं पवित्रं
 
विनायकं शूरमहं प्रपद्ये ॥ १ ॥
 
श्री गणाधिपतये नमः । श्रीमहागणपतये नमः ।
 
1. मस्त्वा
 
2.
 
लाभैश्च
 
3. तं
 
4. शरण
 
अस्य कवचस्य आरम्भे एते श्लोकाः दृश्यन्ते—
 
ओं
 
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
 
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ श्रीगुरुभ्यो नमः ॥ १ ॥
 
श्रियं गणपतिं दुर्गा वटुकं शिवमच्युतम् ।
 
ब्रह्माणं गिरिजां लक्ष्माँ वाणीं वन्दे विभूतये ॥ २ ॥
 
वन्दे गुरुपदद्वन्द्वमवाङ्मनसगोचरम् ।
 
रक्तशुक्लप्रभा मिश्रमतयं पुरं महः ॥ ३ ॥
 
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
 
चक्षुरुन्मीलनं येन तस्मै श्रीगुरवे नमः ॥ ४ ॥
 
अस्मत्-श्रीगुरुपादुकाभ्यो नमः । श्रीशिवाय नमः ।
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
 
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ ५॥