Proofing

2026-04-26 22:42:35 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<footnote>
१६. ॥ अथ श्रीवेङ्कटेशस्तोत्रम् ॥
</footnote>
<verse>
क्षेमं मे कमलापतिर्वितरतु श्रीवेङ्कटाद्रीश्वरः

कारुण्यामृतवारिधित्रिजगतां क्षेमंकरो वत्सलः ।

श्रीमद्भाष्यकृता सुबोधनिधिना रामानुजखास्वामिना
 

भक्त्या दत्तपरत्वचिह्नविलसद्बाहुर्महावैभवः ॥ १॥
</verse>
<verse>
रेखारूपमनोज्ञ दिव्य कलश श्रीपाञ्चजन्यध्वज-

ज्ञानाब्जाङ्कुशकल्पचक्रविलसत्पादारविन्दद्वयम् ।

लक्ष्मीदिव्यपदाम्बुजातयुगळीजाज्वल्यमानोल्लस-

ल्लाक्षालक्षितवक्षसं सुशरणं श्रीवेङ्कटेशं भजे ॥ २॥
</verse>
<verse>
सद्योजातमनोज्ञपल्लवलसत्पाण्यम्बुजाभ्यां रमा

बिभ्राणौ सभयं तु यस्य चरणौ संवाहनेऽपि क्लमम् ।

शीघ्रं किञ्च सरोरुहारुणतलौ मञ्जीर भूपोषोज्ज्वलौ

तं देवं श्रितपारिजातमतुलं श्रीवेङ्कटेशं भजे ॥ ३ ॥
</verse>
<verse>
ब्रह्मेशा दिकिरीटकोटिघटितप्रत्यग्रनानाविध-

श्रीमद्रत्नमहः प्ररोहनिकरैर्नीराजित श्रीपदम् ।

आनन्दाख्यविमानदिव्यनिलये लक्ष्म्या सह क्रीडि
तं
साक्षान्मन्मथमन्मथं गुणनिधिं श्रीवेङ्कटेशं भजे ॥ ४ ॥
</verse>
<verse>
श्रीपादौ चरणागतैः प्रथमतो यस्यावगाह्यौ जनैः

देदीप्रावमृतायिताविव शिशोर्मातुः स्तनौ श्रीपतेः ।

गोत्रायां विपिने वृषाद्रिशिखरे चित्तेऽप्यनन्यात्मनां

वेदान्ते सममाहितौ तमतुलं श्रीवेङ्कटेशं भजे ॥ ५ ॥
</verse>
<verse>
अत्यन्त प्रियदर्शनं कमलया प्रारूढवक्षःस्थलं

नानाभूषणभूषितं प्रविलसत्पीताम्बरप्रोज्ज्वलम् ।

सर्वाभीष्टवरप्रदं प्रणमतां जाज्वल्यमानप्रभं
 

बालार्कोज्ज्वलदिव्यरत्नमकुटं श्रीवेङ्कटेशं भजे ॥ ६॥
 
</verse>
<verse>
अम्भोजामृतसिन्धुजातकलशप्रस्पर्धिदिव्याननं
 

सुभ्रूसुन्दरमध्यचन्द्रविलसत्फालं मनोज्ञस्मितम् ।
 

आकर्णायतलोचनं मणिमय श्रीहारभूषोज्ज्वलं
 

श्रीवत्साङ्कितवक्षसं श्रितनिधिधिं श्रीवेङ्कटेशं भजे ॥ ७ ॥
 
</verse>
</page>