Proofing

2026-04-03 16:53:28 by ambuda-bot

This page has not been fully proofread.

१६. ॥ अथ श्रीवेङ्कटेशस्तोत्रम् ॥
क्षेमं मे कमलापतिर्वितरतु श्रीवेङ्कटाद्रीश्वरः
कारुण्यामृतवारिधित्रिजगतां क्षेमंकरो वत्सलः ।
श्रीमद्भाष्यकृता सुबोधनिधिना रामानुजखामिना
 
भक्त्या दत्तपरत्वचिह्नविलसद्बाहुर्महावैभवः ॥ १॥
रेखारूपमनोज्ञ दिव्य कलश श्रीपाञ्चजन्यध्वज-
ज्ञानाब्जाङ्कुशकल्पचक्रविलसत्पादारविन्दद्वयम् ।
लक्ष्मीदिव्यपदाम्बुजातयुगळीजाज्वल्यमानोल्लस-
ल्लाक्षालक्षितवक्षसं सुशरणं श्रीवेङ्कटेशं भजे ॥ २॥
सद्योजातमनोज्ञपल्लवलसत्पाण्यम्बुजाभ्यां रमा
बिभ्राणौ सभयं तु यस्य चरणौ संवाहनेऽपि क्लमम् ।
शीघ्रं किञ्च सरोरुहारुणतलौ मञ्जीर भूपोज्ज्वलौ
तं देवं श्रितपारिजातमतुलं श्रीवेङ्कटेशं भजे ॥ ३ ॥
ब्रह्मेशा दिकिरीटकोटिघटितप्रत्यग्रनानाविध-
श्रीमद्रत्नमहः प्ररोहनिकरैर्नीराजित श्रीपदम् ।
आनन्दाख्यविमानदिव्यनिलये लक्ष्म्या सह क्रीडित
साक्षान्मन्मथमन्मथं गुणनिधिं श्रीवेङ्कटेशं भजे ॥ ४ ॥
श्रीपादौ चरणागतैः प्रथमतो यस्यावगाह्यौ जनैः
देदीप्रावमृतायिताविव शिशोर्मातुः स्तनौ श्रीपतेः ।
गोत्रायां विपिने वृषाद्रिशिखरे चित्तेऽप्यनन्यात्मनां
वेदान्ते सममाहितौ तमतुलं श्रीवेङ्कटेशं भजे ॥ ५ ॥
अत्यन्त प्रियदर्शनं कमलया प्रारूढवक्षःस्थलं
नानाभूषणभूषितं प्रविलसत्पीताम्बरप्रोज्ज्वलम् ।
सर्वाभीष्टवरप्रदं प्रणमतां जाज्वल्यमानप्रभं
 
बालार्कोज्ज्वलदिव्यरत्नमकुटं श्रीवेङ्कटेशं भजे ॥ ६॥
 
अम्भोजामृतसिन्धुजातकलशप्रस्पर्धिदिव्याननं
 
सुभ्रूसुन्दरमध्यचन्द्रविलसत्फालं मनोज्ञस्मितम् ।
 
आकर्णायतलोचनं मणिमय श्रीहारभूषोज्ज्वलं
 
श्रीवत्साङ्कितवक्षसं श्रितनिधि श्रीवेङ्कटेशं भजे ॥ ७ ॥