Proofing

2026-04-02 21:26:23 by ambuda-bot

This page has not been fully proofread.

i
 
श्रीविनायकस्तोत्रम्
 
गणाष्टकमिदं पुण्यं यः पठेत् सततं नरः ।
 
सिध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥ ९ ॥
॥ इति श्रीगणेशाष्टकं सम्पूर्णम् ॥
 
५. ॥ श्रीविनायकस्तोत्रम् ॥
 
गण्डस्थलद्वयगलन्मदवारिधारा-
सौरभ्यलुभ्यदलिडिम्भकगुम्भनादैः ।
वाचालिताखिलदिशं वरदं नतानां
 
वन्दामहे गजमुखं वयमादिदेवम् ॥ १ ॥
 
गर्विष्ठखेचर पुरत्रयनाथ दैत्य-
 
भङ्गोद्यतः स्वयमयं परमेश्वरोऽपि ।
आदौ यमेव परिपूज्य विधूतसर्व-
 
विघ्नो जिगाय तमिमं वयमाश्रयामः ॥ २ ॥
 
प्रष्ठवर्णततिपञ्चमषष्ठवर्ण-
युग्माविधेयविरहादतिमात्रदीनम् ।
 
श्रायेत मामनुदिनं निजपुष्करात्त-
 
कुम्भस्थरत्ननिकरानभिवृष्य देवः ॥ ३ ॥
 
पद्मासहायगिरिजापतिरत्य[वाग]धीश-
'देवादिनाकनिलयैर्वनितासहायैः ।
अन्वास्यमानमखिलास्वपि दिक्षु सिद्ध-
लक्ष्मीसहायमनिशं शरणं भजामः ॥ ४॥
तन्वीत नः शुभमतिं तरुणारुणश्री-
दायादकायरुचिरिन्दुवतं ससू नुः ।
प्रत्यूहभङ्गपटुभिः सहितो वधूभि -
 
रामोदमुख्यनिजपारिषदैः समेतः ॥ ५ ॥
ये चिन्तयन्ति निमिषार्धमपि प्रभो त्वां
 
श्रीमन्निभानन विधूतभिदान्धकाराः ।
बाभासमानमनिशं हृदये समुद्य-
 
दानन्दबोधघनमेकममी नमस्याः ॥ ६ ॥
न श्रौतकर्मसु रतिर्न च बोधनिष्ठा
स्वामिन्नुमा सुत न जातु कृतापि पूजा ।
 
1. भूरादिपूर्व किभि-