Stotrarnava /52
This page has not been fully proofread.
W
श्रीगणेशस्तोत्रेषु
४. ॥ श्रीगणेशाष्टकम् ॥
एकदन्तं महाकायं तप्तकाञ्चनसंनिभम् ।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १ ॥
मौजीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।
बालेन्दुसुकला मौलिं वन्देऽहं गणनायकम् ॥ २ ॥
चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम् ।
कामरूपधरं देवं वन्देऽहं गणनायकम् ॥ ३ ॥
मूषिकोत्तममारुह्य देवासुरमहाहवे ।
योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ ४॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् ।
पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥ ५ ॥
यक्षकिन्नर गन्धर्वसिद्धविद्याधरैः सदा ।
स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥ ६॥
अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् ।
भक्तप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ७ ॥
सर्वविघ्नकरं देवं सर्वविघ्नविवर्जितम् ।
सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ ८॥
एतौ श्लोकौ स्तोत्रारम्भे दृश्येते—
शुक्लाम्बरधर विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १ ॥
यं ब्रह्म वेदान्तविदो वदन्ति
पर प्रधानं पुरुषं तथान्ये ।
विश्वोद्गतेः कारणमीश्वरं वा [च]
तस्मै नमो विघ्नविनायकाय ॥ २ ॥
एतौ श्लोकौ स्तोत्रावसाने दृश्येते -
मूषिकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र ।
वामनरूप महेश्वरपुत्र विघ्नविनायकपाद नमस्ते ॥ ३ ॥
गजाननं भूतगणाधिसेवितं
कपित्थजम्बूफलसारभक्षितम् ।
उमासुतं शोक विनाशकारणं
नमामि विघ्नेश्वरपादपङ्कजम् ॥ ४ ॥