Stotrarnava /51
This page has not been fully proofread.
श्रीगणेशाष्टकम्
अजं तुन्दिलं व्योमधर्मोपमेयं
भृशं दन्तपाणिं 'सुजातैकदन्तम् ।
गले हास्तिकं नागयज्ञोपवीतं
सदानन्दरूपं गणेशं भजेऽहम् ॥ २ ॥
विभुं निर्मलं शर्वपुत्रं सुरेशं
शिवं शूलिवत्सं गणेशानमीशम् ।
कण किङ्किणीनादपादौ वहन्तं
सदानन्दरूपं गणेशं भजेऽहम् ॥ ३ ॥
दौर्वेष्ठितं विघ्नविध्वंसुवगैः
सुरैर्मण्डितर्यज्ञयज्ञोत्तमाङ्गम् ( ? ) ।
गुणातीतमव्यक्तमेकं तुरीयं
सदानन्दरूपं गणेशं भजेऽहम् ॥ ४ ॥
नरं सिन्धुरं पञ्चवक्त्रं विचित्रं
वयोयोगिनं भोगनाथं [ महेशम् ] ।
करं कारिणं कामिनं नागरूपं
सदानन्दरूपं गणेशं भजेऽहम् ॥ ५॥
मुदा हायनं लोक कर्तारमाद्यं
लसत्केतुना बद्धहस्तैकपोतम् ।
सदोमालिनं देवलोकैकपूतं
सदानन्दरूपं गणेशं भजेऽहम् ॥ ६ ॥
जगत्कारणं तर्कवेदान्तवेद्यं
मुदा योगगम्यं विशुद्धाट्टहासम् ।
शरण्यं वरेण्यं विशुद्धं तमाद्यं
सदानन्दरूपं गणेशं भजेऽहम् ॥ ७ ॥
प्रियासिद्धिभाजे धिया वामभागे
लसन्माद्विकावामदेवं त्रिणेत्रम् ।
अमोघं सुरेशं महेशानमीशं
सदानन्दरूपं गणेशं भजेऽहम् ॥ ८ ॥
॥ इति श्रीगणेशाष्टकं सम्पूर्णम् ॥
1.
मे.
2. गौरि
3. स्रष्टार
अजं तुन्दिलं व्योमधर्मोपमेयं
भृशं दन्तपाणिं 'सुजातैकदन्तम् ।
गले हास्तिकं नागयज्ञोपवीतं
सदानन्दरूपं गणेशं भजेऽहम् ॥ २ ॥
विभुं निर्मलं शर्वपुत्रं सुरेशं
शिवं शूलिवत्सं गणेशानमीशम् ।
कण किङ्किणीनादपादौ वहन्तं
सदानन्दरूपं गणेशं भजेऽहम् ॥ ३ ॥
दौर्वेष्ठितं विघ्नविध्वंसुवगैः
सुरैर्मण्डितर्यज्ञयज्ञोत्तमाङ्गम् ( ? ) ।
गुणातीतमव्यक्तमेकं तुरीयं
सदानन्दरूपं गणेशं भजेऽहम् ॥ ४ ॥
नरं सिन्धुरं पञ्चवक्त्रं विचित्रं
वयोयोगिनं भोगनाथं [ महेशम् ] ।
करं कारिणं कामिनं नागरूपं
सदानन्दरूपं गणेशं भजेऽहम् ॥ ५॥
मुदा हायनं लोक कर्तारमाद्यं
लसत्केतुना बद्धहस्तैकपोतम् ।
सदोमालिनं देवलोकैकपूतं
सदानन्दरूपं गणेशं भजेऽहम् ॥ ६ ॥
जगत्कारणं तर्कवेदान्तवेद्यं
मुदा योगगम्यं विशुद्धाट्टहासम् ।
शरण्यं वरेण्यं विशुद्धं तमाद्यं
सदानन्दरूपं गणेशं भजेऽहम् ॥ ७ ॥
प्रियासिद्धिभाजे धिया वामभागे
लसन्माद्विकावामदेवं त्रिणेत्रम् ।
अमोघं सुरेशं महेशानमीशं
सदानन्दरूपं गणेशं भजेऽहम् ॥ ८ ॥
॥ इति श्रीगणेशाष्टकं सम्पूर्णम् ॥
1.
मे.
2. गौरि
3. स्रष्टार