Stotrarnava /50
This page has not been fully proofread.
श्रीगणेशस्तोत्रेषु
मेदुरं मौक्तिकासारं वर्षन्तौ भक्तिशालिनाम् ।
वसुधाराशङ्खनिधी वाक्पुष्पाञ्जलिभिः स्तुमः ॥ २४ ॥
वर्षन्तौ रत्नवर्षेण 'वलद्बालातपत्विपौ ।
वरदौ नमतां वन्दे वसुधापद्मशेवधी ॥ २५ ॥
शमिताधिमहाव्याधीः सान्द्रानन्दकरम्बिता: ।
ब्राह्मयादी : कलये शक्तीः शक्तीनामभिवृद्धये ॥ २६ ॥
मामवन्तु महेन्द्राद्या दिक्पाला दर्पशालिनः ।
'संनुमः श्रीगणाधीशं सवाहायुधशक्तयः ॥ २७ ॥
नवीनपल्लवच्छायादायादवपुरुज्ज्वलम् ।
मेदस्वि मदनिष्यन्दस्रोतस्वि कटकोटरम् ॥ २८ ॥
चजमानतनुं यागरूपिणं यज्ञपूरुषम् ।
यमं यमवतामर्थ्यं यत्नभाजामदुर्लभम् ॥ २९॥
स्वारस्यपरमानन्दस्वरूपं स्वयमुद्गतम् ।
स्वयं वेद्यं स्वयं शक्तं "स्वयं कृत्यत्रयाकरम् ॥ ३० ॥
हारकेयूरमकुटकटकाङ्गदकुण्डलैः ।
अलङ्कृतं च विघ्न्नानां हर्तारं देवमाश्रये ॥ ३१ ॥
इति 'मन्त्रावलिस्तोत्रं कथितं तव सुन्दरि ।
समस्तमीप्सितं तेन सम्पादय शिवे शिवम् ॥ ३२ ॥
॥ इति श्रीगणपतिमन्त्राक्षरावलिस्तोत्रं सम्पूर्णम् ॥
३. ॥ श्रीगणेशाष्टकम् ॥
गिरिस्वामिकन्यावराङ्गे वसन्तं
सुरस्वामिनं केलिरूपं हसन्तम ।
लघुस्थूलविघ्नं विनिघ्नन्तमाद्यं
सदानन्दरूपं गणेशं भजेऽहम् ॥ १ ॥
5. स्वयकृत्यत्त्रयी
1. भक्त
2.
बलं बाला
3.
संनमन्तः
4. सहस्रायुध-
6.
7.
मन्त्राक्षर-
शिवं