Stotrarnava /49
This page has not been fully proofread.
श्रीगणपतिमन्त्राक्षरावलिः
णपष्ठवर्णवाच्यस्य दारिद्र्यस्य विभञ्जकैः ।
एतैरेकादशकरानलङ्कुर्वाणमुन्मदम् ॥ ११ ॥
परानन्दमयं भक्तप्रत्यूहव्यूहनाशनम् ।
परमार्थप्रबोधाधि पश्यामि गणनायकम् ॥ १२ ॥
तत्पुरःप्रस्फुरद्विल्वमूलपीठ समाश्रयौ ।
रमारमेशौ विमृशाम्यशेषशुभदायकौ ॥ १३ ॥
येन दक्षिणभागस्थन्यग्रोधतलमाश्रितम् ।
साकल्पं सायुधं वन्दे तं साम्बं परमेश्वरम् ॥ १४ ॥
वरसम्भोगरुचिरौ' पश्चिमे पिप्पलाश्रयौ ।
रमणीयतरौ वन्दे रतिपुष्पशिलीमुखौ ॥ १५ ॥
रममाणौ गणेशानोत्तरदिक्फलिनीतले ।
भूभूधरावुदाराभौ भजे भुवनपालकौ ॥ १६ ॥
वलमानवपुर्ज्योतिःकडारितककुप्तटीः ।
हृदयादिरगं देवि 'रङ्गरक्षाकृते भजे ॥ १७ ॥
रदकाण्डरुचिज्योत्स्ना"काशगण्डस्रवन्मदम् ।
ऋद्धयाश्लेषकृतामोदमामोदं देवमाश्रये ॥ १८ ॥
दलत्कपोलविगलन्मदधाराबलाहकम् ।
समृद्धिदलिष्टं प्रमोद हृदि भावये ॥ १९॥
सकान्तिं कान्तिलतिका परिरब्धतनुं भजे ।
भुजप्रकाण्ड' सच्छायं सुमुखं कल्पपादपम् ॥ २० ॥
वन्दे तुन्दिल 'मिन्धानं चन्द्रकन्दलशीतलम् ।
दुर्मुखं मदनावत्या निर्मितालिङ्गनामृतम् ॥ २१ ॥
जम्भवैरिकृताभ्यच जगदभ्युदयप्रदौ ।
अहं मदद्रवौ विन्नाहतये "तेजसां श्रये ॥ २२ ॥
'नवशृङ्गाररुचिरौ नमत्सर्व सुरासुरौ ।
द्राविणीविघ्नकर्तारौ द्रावयेतां दरिद्रताम् ॥ २३ ॥
1. रसिकौ
5.
सन्धां च
2.
देवमङ्ग
6.
रेफसां
3.
शार
7.
सम
4.
संच्छायि