Proofing

2026-04-02 21:26:22 by ambuda-bot

This page has not been fully proofread.

श्रीदेव्युवाच-
 
२. ॥ श्रीगणपतिमन्त्राक्षरावलिः ॥
 
विना तपो विना ध्यानं विना होमं विना जपम् ।
अनायासेन विघ्नेशप्रीणनं वद मे प्रभो ॥ १ ॥
 
महेश्वर उवाच -
 
मन्त्राक्षरावलिस्तोत्रं महासौभाग्यवर्धनम् ।
दुर्लभं दुष्टमनसां सुलभं शुद्धचेतसाम् ॥ २ ॥
 
महागणपतिप्रीतिप्रतिपादकमञ्जसा ।
 
कथयामि घनश्रोणि कर्णाभ्यामवतंसय ॥ ३ ॥
 
ओंकारवलयाकारम् अच्छ कल्लोलमालिकम् ।
ऐक्षवं चेतसा वक्ष्ये सिन्धुं सन्धुक्षितस्वनम् ॥ ४ ॥
श्रीमन्तं मध्यजलधेरन्तरभ्युदितं नुमः ।
मणिद्वीपं महाकायं महाकल्पं महोदयम् ॥ ५ ॥
 
"प्रीतिमादधता धाम्ना धाम्नामीशे किशोरके ।
कल्पोद्यानस्थितं वन्दे भारवन्तं मणिमण्डपम् ॥ ६ ॥
 
की स्यापि स्मरोन्मादकारिशृङ्गारशालिनि ।
तन्मध्ये गणनाथस्य मणिसिंहासनं भजे ॥ ७ ॥
 
ग्लौकलाभिरिवाच्छाभिस्तीत्रादिनवशक्तिभिः ।
जुष्टं लिपिमयं पद्मं धर्माद्याश्रयमाश्रये ॥ ८ ॥
 
गम्भीरमिव तत्राब्धि वसन्तं त्र्यश्रमण्डले ।
उत्सङ्गगतलक्ष्मीकमुद्यत्तिग्मांशुपाटलम् ॥ ९ ॥
गदेक्षुकार्मुकरुजा चक्राम्बुजगुणोत्पलैः ।
व्रीह्यग्रनिजदन्ताय' तुलसीमातुलुङ्गकैः ॥ १० ॥
 
1.
 
कायं
 
2. हेति
 
4. भास्वरं
 
5.
 
मण्डपे
 
3. शिरोरके
 
6. सलकी