Proofing

2026-04-03 16:53:13 by ambuda-bot

This page has not been fully proofread.

१९. ॥ अथ श्रीगोपालस्तोत्रम् ॥
 
वक्षस्थले मणिमयाभरणाभिरामे
कल्याणकल्पलतिकां कमलां वहन्तम् ।
वक्त्रे दधानमतिसुन्दरमन्दहासं
 
सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ १ ॥
 
वेदान्तमस्तक गिरां प्रथमाभिधेयं
गोपालबालवनिताभवने निवेयम् ।
नन्दाङ्गनानयनपङ्कजभागधेयं
 
सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ २ ॥
 
काञ्चीकलापकमनीयकटिप्रदेशं
 
कान्तासहस्रकुचमण्डलमण्डनीयम् ।
कामं विशालनयनं करुणैकसिन्धुं
 
सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ३ ॥
 
आजानुदीर्घभुजमञ्चितकञ्जनाभम्
आलोलनेत्रमसितोत्पलकर्णपूरम् ।
आरूढपक्षिपतिमाश्रितकालमेघं
 
सचिन्तयामि नृपगोपकुमारवेषम् ॥ ४ ॥
 
फुल्लातसीकुसुमकान्तिमुषं कुमारं
सौन्दर्यशेवधिमुदारगुणाभिरामम् ।
लक्ष्म्यालयं कलितकौस्तुभमम्बुजाक्षं
 
सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ५ ॥
 
हस्तारविन्दयुगलीधृतशङ्खचक्रं
 
पीताम्बरं मकरकुण्डलदीप्तगण्डम् ।
हाराभिराममभिरामक राङ्गुलीयं
 
सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ६ ॥
 
कन्दर्पकान्तिमरुणाधरमायताक्षं
 
कस्तूरिकातिलकशोभितफालभागम् ।
 
पूर्णेन्दुबिम्बवदनं मधुरावलोकं
 
सचिन्तयामि नृपगोपकुमारवेषम् ॥ ७ ॥