Proofing

2026-04-02 21:26:22 by ambuda-bot

This page has not been fully proofread.

१.
 
॥ श्रीरस्तु ॥
 
॥ श्रीगणेशस्तोत्राणि ॥
 
॥ श्रीगणेशनवरत्नमाला ॥
 
श्रीकण्ठतनय श्रीश श्रीकर श्रीदलार्चित ।
 
श्रीविनायक सर्वेश श्रियं वासय मे कुले ॥ १ ॥
 
गजानन गणाधीश द्विजराजविभूषित ।
 
भजे त्वां सच्चिदानन्द ब्रह्मणां ब्रह्मणस्पते ॥ २ ॥
'नताधीशाय महते दीनाट विकुठारिणे ।
घृणापालितलोकाय वनानां पतये नमः ॥ ३ ॥
 
धीप्रदाय नमस्तुभ्यमीप्सितार्थप्रदायिने ।
दीप्तभूषणभूषाय दिशां च पतये नमः ॥ ४ ॥
 
पञ्चब्रह्मस्वरूपाय पपातकारिणे ।
 
पञ्चतत्त्वात्मने तुभ्यं पशूनां पतये नमः ॥ ५ ॥
 
तटित्कोटिप्रतीकाशतनवे विश्वसाक्षिणे ।
 
तपस्विध्यायिने तुभ्यं सेनानीभ्यश्च वो नमः ॥ ६ ॥
 
एकाक्षरस्वरूपाय ए[चै ] कदन्ताय वेधसे ।
नैकरूपाय महते मुष्णतां पतये नमः ॥ ७ ॥
नगजावरपुत्राय सुरराजार्चिताय च ।
 
सुगुणाय नमस्तुभ्यं सुमृडीकाय मीढुषे ॥ ८ ॥
 
महापातकसङ्घातमहारणभयापह ।
 
त्वदीयकृपया देव सर्वानवयजामहे ॥ ९ ॥
 
नवरत्नमयीं मालां नवाक्षरसमन्विताम् ।
 
तव[भव]भक्त्या यः[ये] पठन्ति तेषां तुष्टो गणाधिप ॥ १० ॥
॥ इति श्रीगणेशनवरत्नमाला सम्पूर्णा ॥
 
1, ण