Stotrarnava /438
This page has not been fully proofread.
१५. ॥ अथ श्रीविंशत्यक्षरीध्यानम् ॥
श्रीमत्यां द्वारवत्यां नवकनकमये भूतले रत्ननद्योः
मध्ये कल्पद्रुमाधो विविधमणिलसन्मण्डपे सन्निविष्टम् ।
चक्रं शङ्खं च वेणुं नलिनमथ गदां योगमुद्रां दधानं
वन्दे संसिच्यमानं मणिमयकलशैर्वल्लभाभिर्मुकुन्दम् ॥ १ ॥
॥ इति श्रीविंशत्यक्षरीध्यानं सम्पूर्णम् ॥
१६. ॥ अथ श्री अष्टाक्षरीध्यानम् ॥
वेदान्तस्वद्रुमायस्तलपरिलसिताष्टाक्षराष्ट्रच्छदान्जे
तिष्ठन् वामाङ्घ्रिणासावितरपदतलं वामतोऽग्रे निधाय ।
बिभ्रत् सर्वा विभूतीर्मणिगणविलसद्भूषणश्यामलश्रीः
शब्दब्रह्मात्मवेणुं भुवनधृतिहरं नादयन् माधवोऽव्यात् ॥ १ ॥
॥ इति श्री अष्टाक्षरीध्यानम् ॥
१७. ॥ अथ श्री पूर्णत्रयीशस्तोत्रम् ॥
पूर्णत्रय्याख्यपुर्यां हरिभवननिभे स्वालये सन्निषण्णः
पीठे हैमे स कृष्णः फणिवरलसितो हारकोटीरधारी ।
केयूरैः कुण्डलैस्तैर्मणिवरकटकैर्भूषणैर्भासुराङ्गो
माटश्रीरामभूपं कठिनकवचधृक् पातु पूर्णत्रयीशः ॥ १ ॥
पूर्वं यः कंसहेतोर्निजपितृजननीभ्यां स्तुतो बालकृष्णो
1. जातः पित्रा निशायां व्रजपतिरमणीसूतिकागेहमध्यम् ।
संनीतः स्वीयता व्रजपतितनयां संप्रयाते गृहीत्वा
माटश्रीरामभूपं मृदुहसनपरः पातु पूर्णत्रयीशः ॥ २॥
बाली पूतना सा शिशुहननकृते प्रेषिता नन्दगेहं
कंसेन
क्रूरबुद्धया यदुपतितनयं शङ्कमानेन कृष्णम् ।
संप्राप्य स्तन्यदुग्धं निजमुखकमले दातुकामां सजीवं
स्तन्यं पीत्वाहनत्तां नृपकुलतिलकं पातु पूर्णत्रयीशः ॥ ३ ॥
हेमाढ्ये तल्पवर्ये व्रजपति सुदृशा शायितो जातनिद्रः
तत्काले चागतं तं शकटदितिसुतं योगदृष्टया निशाम्य ।
स्तन्यार्थी रुद्यमानो निजचरणयुगेनोत्क्षिपन् दैत्यहेयं [ देहं ]
च्छिन्नाभिन्नाङ्गसन्धिं त्वतनुत स नृपं पातु पूर्णत्रयीशः ॥ ४ ॥
कंसेन प्रेषितं तं निजहननविधौ चक्रवातस्वरूपा -
दात्मानं संगृहीत्वा गतमपि च तृणावर्त [ नामानमा ] शु ।
कण्ठे निष्पीड्य कोपाद्विगलितरसनं शीर्णनेत्रं व्यधाद्यः
सोऽयं तं रामभूपं गुणनिधिमनिशं पातु पूर्णत्रयीशः ॥ ५ ॥