Stotrarnava /437
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीकृष्णस्तुतिः
</ignore>
<verse>पीताम्बरोज्ज्वलश्री श्रीवत्सोद्भासितोरस्का ।
कौस्तुभकृतमणिभूषा रक्षतु मां भाग्यपरिणतिर्महताम् ॥ १३ ॥
</verse>
<verse>जलजारियोगमुद्रावेणुगदाभासुराष्टभुजम् ।
प्रणतिपरदुरितनिकर प्रमथनकृतदीक्षमच्युतं नौमि ॥ १४ ॥
</verse>
<verse>नरसुरनारकतनुभृद्धृदयगुहा गूढनिज महिमा ।
३९१
वनमालया निवीतः परमात्मा स्फुरतु मम हृदये ॥ १५ ॥
</verse>
<verse>वल्लवसुचरितमव्यात् सव्याग्राश्लिष्टजानुदक्षपदम् ।
क्रामदनारतविगलद्रत्नघटन्यस्तपादुकमस्मान् ॥ १६ ॥
</verse>
<verse>लक्ष्मीवक्षोज मिलद्यु घुसृणारुणवर्णवक्षसं वन्दे ।
अङ्कस्थितदयिताभ्यामभिषिक्तं रत्नधारया शौरिम् ॥ १७ ॥
</verse>
<verse>भासुर भूसुरनिकरैर्विचीयमानोऽच्युतस्त्रयीशिरसि ।
मम सुरतरुमञ्जर्या दिशतु मुदं मणिभिरभिषिक्तः ॥ १८ ॥
</verse>
<verse>यश्च प्रकृतेस्तस्याः कार्याणां प्रेरकोऽहिराजेन ।
सिक्ताय नमो रत्नैर्गोपीजनवल्लभायास्मै ॥ १९ ॥
</verse>
<verse>स्वाश्रयमेतद्विश्वं स्वमपि च विश्वाश्रयं विदुर्हि बुधाः ।
यन्नमनात् सकलैरप्यभिषिक्तो मणिभिरवतु मां स हरिः ॥ २० ॥
</verse>
<verse>हारं यद्वाम बुधाः स्वात्मनि पश्यन्ति सोऽहमिति ।
तदतिप्रसन्नवदनं स्वाहा जानिर्ममास्त्वविद्यायाः ॥ २१ ॥
</verse>
<verse>मन्त्राक्षरारब्धमुखार्णपद्यां-
तद्ध्यानवाच्यप्रकटोक्तिहृद्याम् ।
मन्त्रार्णमालां दधतोऽनवद्यां
यतो लभेरन् परमात्मविद्याम् ॥ २२ ॥
</verse>
<verse>व्रजरमणीरमणीयकटाक्ष-
भ्रमरघटारभटीपरिशोभि ।
कपटशिशोरशिवप्रतिघातं
मुखनवतामरसं मम कुर्यात् ॥ २३ ॥
</verse>
<trailer>॥ इति श्री कृष्णस्तुतिः समाप्ता ॥
</trailer>
</page>
<ignore>श्रीकृष्णस्तुतिः
<verse>पीताम्बरोज्ज्वलश्री
कौस्तुभकृतमणिभूषा रक्षतु मां भाग्यपरिणतिर्महताम् ॥ १३ ॥
<verse>जलजारियोगमुद्रावेणुगदाभासुराष्टभुजम् ।
प्रणतिपरदुरितनिकर
<verse>नरसुरनारकतनुभृद्धृदयगुहा
३९१
वनमालया निवीतः परमात्मा स्फुरतु मम हृदये ॥ १५ ॥
<verse>वल्लवसुचरितमव्यात् सव्याग्राश्लिष्टजानुदक्षपदम् ।
क्रामदनारतविगलद्रत्नघटन्यस्तपादुकमस्मान् ॥ १६ ॥
<verse>लक्ष्मीवक्षोज
अङ्कस्थितदयिताभ्यामभिषिक्तं रत्नधारया शौरिम् ॥ १७ ॥
<verse>भासुर
मम सुरतरुमञ्जर्या दिशतु मुदं मणिभिरभिषिक्तः ॥ १८ ॥
<verse>यश्च प्रकृतेस्तस्याः कार्याणां प्रेरकोऽहिराजेन ।
सिक्ताय नमो रत्नैर्गोपीजनवल्लभायास्मै ॥ १९ ॥
<verse>स्वाश्रयमेतद्विश्वं स्वमपि च विश्वाश्रयं विदुर्हि बुधाः ।
यन्नमनात् सकलैरप्यभिषिक्तो मणिभिरवतु मां स हरिः ॥ २० ॥
<verse>हारं यद्वाम बुधाः स्वात्मनि पश्यन्ति सोऽहमिति ।
तदतिप्रसन्नवदनं स्वाहा