Proofing

2026-04-03 16:53:05 by ambuda-bot

This page has not been fully proofread.

श्रीकृष्णस्तुतिः
 
पीताम्बरोज्ज्वलश्री श्रीवत्सोद्भासितोरस्का ।
 
कौस्तुभकृतमणिभूषा रक्षतु मां भाग्यपरिणतिर्महताम् ॥ १३ ॥
जलजारियोगमुद्रावेणुगदाभासुराष्टभुजम् ।
 
प्रणतिपरदुरितनिकर प्रमथनकृतदीक्षमच्युतं नौमि ॥ १४ ॥
 
नरसुरनारकतनुभृद्धृदयगुहा गूढनिज महिमा ।
 
३९१
 
वनमालया निवीतः परमात्मा स्फुरतु मम हृदये ॥ १५ ॥
वल्लवसुचरितमव्यात् सव्याग्राश्लिष्टजानुदक्षपदम् ।
क्रामदनारतविगलद्रत्नघटन्यस्तपादुकमस्मान् ॥ १६ ॥
लक्ष्मीवक्षोज मिलद्यु सृणारुणवर्णवक्षसं वन्दे ।
अङ्कस्थितदयिताभ्यामभिषिक्तं रत्नधारया शौरिम् ॥ १७ ॥
भासुर भूसुरनिकरैर्विचीयमानोऽच्युतस्त्रयीशिरसि ।
मम सुरतरुमञ्जर्या दिशतु मुदं मणिभिरभिषिक्तः ॥ १८ ॥
यश्च प्रकृतेस्तस्याः कार्याणां प्रेरकोऽहिराजेन ।
सिक्ताय नमो रत्नैर्गोपीजनवल्लभायास्मै ॥ १९ ॥
स्वाश्रयमेतद्विश्वं स्वमपि च विश्वाश्रयं विदुर्हि बुधाः ।
यन्नमनात् सकलैरप्यभिषिक्तो मणिभिरवतु मां स हरिः ॥ २० ॥
हारं यद्वाम बुधाः स्वात्मनि पश्यन्ति सोऽहमिति ।
तदतिप्रसन्नवदनं स्वाहा जानिर्ममास्त्वविद्यायाः ॥ २१ ॥
मन्त्राक्षरारब्धमुखार्णपद्यां-
 
तद्ध्यानवाच्यप्रकटोक्तिहृद्याम् ।
मन्त्रार्णमालां दधतोऽनवद्यां
 
यतो लभेरन् परमात्मविद्याम् ॥ २२ ॥
 
व्रजरमणीरमणीयकटाक्ष-
 
भ्रमरघटारभटीपरिशोभि ।
 
कपटशिशोरशिवप्रतिघातं
 
मुखनवतामरसं मम कुर्यात् ॥ २३ ॥
 
॥ इति श्री कृष्णस्तुतिः समाप्ता ॥