Stotrarnava /436
This page has not been fully proofread.
३९०
श्रीकृष्णस्तोत्रेषु
मङ्गलं ज्ञानरूपाय सर्वाभिज्ञाय मङ्गलम् ।
मङ्गलं सर्वशक्ताय महासत्त्वाय मङ्गलम् ॥ १६ ॥
मङ्गलं दिव्यवीर्याय माहैश्वर्याय मङ्गलम् ।
मङ्गलं ते[ऽच्युता ]य सत्कुलत्राणाय मङ्गलम् ॥ १७ ॥
॥ इति श्रीकृष्णमङ्गलं सम्पूर्णम् ॥
१४. ॥ अथ श्रीकृष्णस्तुतिः ॥
सृजद्रक्षत् संहरद्यद्विश्वमात्मनि मायया ।
तद्ब्रह्म दद्याद्ब्रह्मास्मीत्यनुभूतिमयीं धियम् ॥ १ ॥
श्रीमत्यां द्वार्वत्यामासीनं कल्पपादपाधस्तात् ।
मणिमण्डपान्तरब्जे विद्याश्रयमाश्रये परं धाम ॥ २ ॥
ह्रीमत्या रतिमत्या रुक्मिण्या सत्यभामया चापि ।
ऊरुस्थितयोपासे श्लिष्टमविद्याश्रयमहं धाम ॥ ३ ॥
ककारात्मक मूर्तिः स्फूर्तिः सत्ता च सकलस्य ।
मायिमहोऽञ्जननीलं सच्चित्सुखरूपमनिशमाशासे ॥ ४ ॥
कृतसक्तिभक्तिमति प्रसृमरमदने च गोपयुवतिजने ।
मणिमकुटाङ्गदकटकप्रभृतिभिरिद्धो हरिमुदे नः स्तात् ॥ ५ ॥
ष्णाधातुवाच्यनिरतैर्जपद्भिरनिशं स्मरद्भिश्च ।
मुनिभिरुपासितमीडे गोपालं नारदप्रमुखैः ॥ ६॥
यमवरुणसोमशक्रप्रभृतिभिरमरैरुपास्यमानाय ।
कृष्णायास्तु नमः सत्सुखमय परमार्थरूपाय ॥ ७ ॥
गोपवधूनां निकरैः प्रियमुखपद्मोत्क लोचनभ्रमरैः ।
विश्लथनीवीकरैः परिवृतमीडे परं महस्तदहम् ॥ ८ ॥
विन्यस्य वेणुमधरे नादब्रह्मामृतोदधौ भुवनम् ।
मनं कुर्वाणा मे निर्वाणायास्तु भावना काचित् ॥ ९ ॥
दानवरक्षोयक्षप्रेतोरगसिद्ध किन्नर प्रमुखैः ।
परिवृतमस्तु परं तद्वस्तु विभूत्यै यदोः कुलाभरणम् ॥ १० ॥
यमिनामन्तः स्वान्तं बद्धस्थितये नमोऽस्तु चिद्वपुषे ।
गोविन्दायासुसमा कटाक्षवीक्षाद्विरुक्तनीलिने ॥ ११ ॥
गोघटया परिवीते गोपालैरपि च धाम्नि निर्विकृतौ ।
विहरतु मानसमनिशं यन्तरि कुन्तीसुतस्य मम ॥ १२ ॥