Stotrarnava /372
This page has not been fully proofread.
३२६
श्रीरामस्तोत्रेषु
सुरानीकदुःखौघना शैकहेतुं
नराकारदेहं निराकारमीड्यम् ।
परेशं परानन्दरूपं वरेण्यं
हरि राममीशं भजे भारनाशम् ॥ २ ॥
प्रपन्नाखिलानन्ददोहं प्रसन्नं
प्रपन्नार्तिनिश्शेषनाशाभिधानम् ।
तपोयोगयोगीशभावादिभव्यं
कपीशादिमित्रं भजे राममित्रम् ॥ ३ ॥
सदा भोगभाजां सुदूरे विभान्तं
चिदानन्दकन्दं सदारामवेशम् ।
विदेहात्मजानन्दरूपं सुरेशं
महेशं नरेशानरामं प्रपद्ये ॥ ४ ॥
महायोगमायाविशेषानुयुक्त्या
सुराधीश लीलानराकारमूर्तेः ।
सदानन्द लीलाकथापूर्णकर्णाः
सदानन्दरूपा भवन्तीह लोके ॥ ५ ॥
अहंमानपानाभिमत्तः प्रमत्तो
न वेदाखिलेशाभिमानाभिमानः ।
इदानीं भवत्पादपद्मप्रसादात्
त्रिलोकाधिपत्याभिमानो विनष्टः ॥ ६ ॥
स्फुरद्रत्नकेयूरहाराभिरामं
धराभारभूतासुरानीकदावम् ।
शरच्चन्द्रवक्त्रं लसत्पद्मनेत्रं
दुरावारपारं भजे राघवेशम् ॥ ७ ॥
सुराधीश नीला नीलाङ्गकान्ति
विराधादिरक्षोवधाल्लोकशान्तिम् ।
किरीटादिशोभं पुरारातिलाभं
भजे रामचन्द्रं रघूणामधीशम् ॥ ८ ॥
लसच्चन्द्रकोटिप्रकाशाधिपीठे
समासीनमेकं समाधाय सीताम् ।
स्फुरद्धेमवर्णां तटित्पुञ्जभासां
भजे रामचन्द्रं निवृत्तार्तितन्त्रम् ॥ ९ ॥
॥ इति श्रीरामस्तवः सम्पूर्णः ॥
श्रीरामस्तोत्रेषु
सुरानीकदुःखौघना शैकहेतुं
नराकारदेहं निराकारमीड्यम् ।
परेशं परानन्दरूपं वरेण्यं
हरि राममीशं भजे भारनाशम् ॥ २ ॥
प्रपन्नाखिलानन्ददोहं प्रसन्नं
प्रपन्नार्तिनिश्शेषनाशाभिधानम् ।
तपोयोगयोगीशभावादिभव्यं
कपीशादिमित्रं भजे राममित्रम् ॥ ३ ॥
सदा भोगभाजां सुदूरे विभान्तं
चिदानन्दकन्दं सदारामवेशम् ।
विदेहात्मजानन्दरूपं सुरेशं
महेशं नरेशानरामं प्रपद्ये ॥ ४ ॥
महायोगमायाविशेषानुयुक्त्या
सुराधीश लीलानराकारमूर्तेः ।
सदानन्द लीलाकथापूर्णकर्णाः
सदानन्दरूपा भवन्तीह लोके ॥ ५ ॥
अहंमानपानाभिमत्तः प्रमत्तो
न वेदाखिलेशाभिमानाभिमानः ।
इदानीं भवत्पादपद्मप्रसादात्
त्रिलोकाधिपत्याभिमानो विनष्टः ॥ ६ ॥
स्फुरद्रत्नकेयूरहाराभिरामं
धराभारभूतासुरानीकदावम् ।
शरच्चन्द्रवक्त्रं लसत्पद्मनेत्रं
दुरावारपारं भजे राघवेशम् ॥ ७ ॥
सुराधीश नीला नीलाङ्गकान्ति
विराधादिरक्षोवधाल्लोकशान्तिम् ।
किरीटादिशोभं पुरारातिलाभं
भजे रामचन्द्रं रघूणामधीशम् ॥ ८ ॥
लसच्चन्द्रकोटिप्रकाशाधिपीठे
समासीनमेकं समाधाय सीताम् ।
स्फुरद्धेमवर्णां तटित्पुञ्जभासां
भजे रामचन्द्रं निवृत्तार्तितन्त्रम् ॥ ९ ॥
॥ इति श्रीरामस्तवः सम्पूर्णः ॥