Stotrarnava /371
This page has not been fully proofread.
श्रीरामस्तवः
घनराजिलसद्देहं घनपीताम्बरोज्ज्वलम् ।
घूत्कारद्रुतरक्षौघं प्रपद्ये रघुनन्दनम् ॥ ७ ॥
चलपीताम्बराभासं चलत्किङ्किणिभूषितम् ।
चन्द्रबिम्बमुखं वन्दे चतुरं रघुनन्दनम् ॥ ८ ॥
सुस्मिताञ्चितवक्त्राब्जं सुनू पुरपदद्वयम् ।
सुदीर्घबाहुयुगलं सुनाभिं राघवं भजे ॥ ९ ॥
हसिताञ्चितनेत्राब्जं हताखिलसुरद्विषम् ।
हरिं रविकुलोद्भूतं हाटकालङ्कृतं भजे ॥ १० ॥
रविकोटिनिभं शान्तं राघवाणामलङ्कृतिम् ।
रक्षोगणयुगान्ताग्निं रामचन्द्रमुपास्महे ॥ ११ ॥
लक्ष्मीसमाश्रितोरस्कं लावण्यमधुराकृतिम् ।
लसदिन्दीवरश्यामं लक्ष्मणामजमाश्रये ॥ १२ ॥
वालिप्रमथनाकारं वालिसू नुसहायिनम् ।
वरपीताम्बराभासं वन्दे राघवभूषणम् ॥ १३ ॥
शमिताखिलपापौघ शान्त्यादिगुणवारिधिम् ।
शतपत्रदृशं वन्दे शुभं दशरथात्मजम् ॥ १४ ॥
कुन्दकुड्मलदन्ताभं कुङ्कुमाङ्कितवक्षसम् ।
कुसुम्भवस्त्रसंवीतं पुत्रं राघवमाश्रये ॥ १५ ॥
मल्लिका मालतीजातिमाधवीपुष्पशोभितम् ।
महनीयमहं वन्दे महतां कीर्तिवर्धनम् ॥ १६ ॥
इदं यो राघवस्तोत्रं नरः पठति भक्तिमान् ।
मुक्तः संसृतिबन्धाद्धि स याति परमं पदम् ॥ १७ ॥
॥ इति श्रीराघवस्तोत्रं सम्पूर्णम् ॥
२२. ॥ अथ श्रीरामस्तवः ॥
भजेऽहं सदा राममिन्दीवराभ
भवारण्यदावानलाभाभिधानम् ।
भवानीहृदाभाचिदानन्दरूपं
भवाभावहेतुं भवादिप्रपन्नम् ॥ १ ॥
1. अशुद्ध भूयिष्ठोऽप्ययं स्तवः प्रासादिगुणोपेततया मुद्रितः ।
३२५-