Proofing

2026-04-03 16:52:51 by ambuda-bot

This page has not been fully proofread.

१२४
 
श्रीरामस्तोत्रेषु
 
यस्य प्रभुत्वपदमावहतो धरण्यां
सामन्त भूमिपतयः स्वयमङ्घ्रिपद्मे ।
निक्षिप्तमौलिमकुटाः करदा बभूवु-
 
स्तं राममार्तिहरणं शरणं भजामि ॥ १०६ ॥
 
यस्मिन् क्षितीशपदभाजि भुवि प्रभीता
रक्षः पिशाचकुलदुर्ग्रहभूतवर्गाः ।
क्षुद्रान् जनानपि कदापि न पीडयन्ति
 
तं राममार्तिहरणं शरणं भजामि ॥ १०७ ॥
जातु स्मृते दुरितहारिणि यस्य नाम्नि
नश्यन्त्यघानि सकलानि पुराकृतानि ।
वाञ्छाधिकानि कुशलानि भवन्ति सद्य-
 
स्तं राममार्तिहरणं शरणं भजामि ॥ १०८ ॥
अष्टोत्तरैकशतपद्यसुपूरितेन
 
भक्त्या [मुहुः स्तुतिव] रेण मयेड्यमानः ।
रामः स एष जनकात्मजया समेतः
 
प्रीतः सदापि हृदये मम सन्निधत्ताम् ॥ १०९ ॥
॥ इति श्रीरामप्रपत्तिशकं सम्पूर्णम् ॥
 
२१. ॥ अथ श्रीराघवस्तोत्रम् ॥
 
इन्द्रनीलाचलश्याममिन्दीवरदृगुज्ज्वलम् ।
इन्द्रादिदैवतैः सेव्यमीडे राघवनन्दनम् ॥ १ ॥
 
पालिताखिलदेवौघं पद्मगर्भ सनातनम् ।
 
पीनवक्षःस्थलं वन्दे पूर्ण राघवनन्दनम् ॥ २ ॥
 
दशग्रीवरिपुं भद्रं दावतुल्यं सुरद्विषाम् ।
 
दण्डकामुनिमुख्यानां दत्ताभयमुपास्महे ॥ ३ ॥
 
कस्तूरीतिलकाभासं कर्पूरनिकराकृतिम् ।
 
कातरीकृतदैत्यौघं कलये रघुनन्दनम् ॥ ४ ॥
 
खरदूषणहन्तारं खरवीर्यभुजोज्ज्वलम् ।
 
खरकोदण्डहस्तं च खस्वरूपमुपास्महे ॥ ५ ॥
 
गजविक्रान्तगमनं गजार्तिहर तेजसम् ।
 
गम्भीरसत्वमैक्ष्वाकं गच्छामि शरणं सदा ॥ ६ ॥