Proofing

2026-04-27 00:17:46 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
श्रीरामप्रपत्तिशतकम्
 
३१३</ignore>
<verse>
यस्तातवेश्म समलङ्कृतमाससाद
 

तं राममार्तिहरणं शरणं भजामि ॥ ९८ ॥
 
</verse>
<verse>
युक्ते वसिष्ठाठगदिते विजये मुहूर्ते

सिंहासने रविशतद्युतिरत्नदीप्ते ।

अध्यास्य मेरुशिखरेऽर्क इवाभिरेजे
 

तं राममार्तिहरणं शरणं भजामि ९९ ॥
 
</verse>
<verse>
यं वायुजप्रमुख वानरवर्यनीत-

गङ्गादिसिन्धुचतुरर्णवपुण्यतोयैः ।
 

ब्रह्मात्मजो मुनिवरो विधिनाभ्यषिञ्चत्
 

तं राममार्तिहरणं शरणं भजामि ॥ १०० ॥
 
</verse>
<verse>
मान्यं मनुप्रभृतिभिर्मकुटं महा
 
र्घं
मौलौ वसिष्ठमुनिना निहितं वहन् यः ।

मध्ये सभं विरुरुचे मधुहेव साक्षा-
 

त्
तं राममार्तिहरणं शरणं भजामि ॥ १०१ ॥
 
</verse>
<verse>
यस्मिन् स्वयं त्रिभुवनावन<delete>दक्षिणेन </delete><add>[ भारदक्षे]
</add>
सर्वं सहापतिपदे सहसाभि<delete>षेकैः</delete><add>[षिक्ते ]</add>

भेजे मही वसुमतीपदवाच्यभावं
 

तं राममार्तिहरणं शरणं भजामि ॥ १०२ ॥
 
</verse>
<verse>
कान्तस्य यस्य जगतां कलिताभिषेके

हृष्टा बभूव धरणीयमकृष्टपच्या ।
 

गावः सुपुष्टवपुषो ह्यभवन् घटोध्न्यः
 

तं राममार्तिहरणं शरणं भजामि ॥ १०३ ॥
 
</verse>
<verse>
यस्मिन् प्रभौ भुवि महीसुर पूर्ववर्णा
 

आसन्नधर्मविरता निजधर्मनिष्ठाः ।
 

अन्योन्यवैरविमुखाः करुणार्द्रचित्ता-
 

स्तं राममार्तिहरणं शरणं भजामि ॥ १०४ ॥
 
<error>॥</error></verse>
<verse>
यस्मिन् धरां समनुशासति सर्वमर्त्या
 

असन् सहस्रशरदायुरनेकपुत्राः ।

आढ्याः प्रमोदभरिताश्च निरामयाश्च
 

तं राममार्तिहरणं शरणं भजामि ॥ १०५ ॥
 
३१३
 
</verse>
</page>