Proofing

2026-04-03 16:52:51 by ambuda-bot

This page has not been fully proofread.

श्रीरामप्रपत्तिशतकम्
 
यस्तातवेश्म समलङ्कृतमाससाद
 
तं राममार्तिहरणं शरणं भजामि ॥ ९८ ॥
 
युक्ते वसिष्ठादिते विजये मुहूर्ते
सिंहासने रविशतद्युतिरत्नदीप्ते ।
अध्यास्य मेरुशिखरेऽर्क इवाभिरेजे
 
तं राममार्तिहरणं शरणं भजामि ९९ ॥
 
यं वायुजप्रमुख वानरवर्यनीत-
गङ्गादिसिन्धुचतुरर्णवपुण्यतोयैः ।
 
ब्रह्मात्मजो मुनिवरो विधिनाभ्यषिञ्चत्
 
तं राममार्तिहरणं शरणं भजामि ॥ १०० ॥
 
मान्यं मनुप्रभृतिभिर्मकुटं महाघ
 
मौलौ वसिष्ठमुनिना निहितं वहन् यः ।
मध्ये सभं विरुरुचे मधुहेव साक्षा-
 
तं राममार्तिहरणं शरणं भजामि ॥ १०१ ॥
 
यस्मिन् स्वयं त्रिभुवनावनदक्षिणेन [ भारदक्षे]
सर्वं सहापतिपदे सहसाभिषेकैः[षिक्ते ] ।
भेजे मही वसुमतीपदवाच्यभावं
 
तं राममार्तिहरणं शरणं भजामि ॥ १०२ ॥
 
कान्तस्य यस्य जगतां कलिताभिषेके
हृष्टा बभूव धरणीयमकृष्टपच्या ।
 
गावः सुपुष्टवपुषो ह्यभवन् घटोध्न्यः
 
तं राममार्तिहरणं शरणं भजामि ॥ १०३ ॥
 
यस्मिन् प्रभौ भुवि महीसुर पूर्ववर्णा
 
आसन्नधर्मविरता निजधर्मनिष्ठाः ।
 
अन्योन्यवैरविमुखाः करुणार्द्रचित्ता-
 
स्तं राममार्तिहरणं शरणं भजामि ॥ १०४ ॥ ॥
 
यस्मिन् धरां समनुशासति सर्वमर्त्या
 
असन् सहस्रशरदायुरनेकपुत्राः ।
आढ्याः प्रमोदभरिताश्च निरामयाश्च
 
तं राममार्तिहरणं शरणं भजामि ॥ १०५ ॥
 
३१३